________________
तृतीय-प्रस्तावः श्री चम्पकमाला - चरित्रम् खण्डितं स्थास्यति तावदियं स्रक् तव कण्ठे सद्यो जातेव भवन्तमामोदयन्ती सुषमां धरिष्यति, मनागपि नैव म्लास्यति । यदैव मनसा वचसा कायेन वा निजशीलं मलिनीकरिष्यामि तदैव मदर्पिता भवत्कण्ठस्थिता स्रगियं म्लास्यति । यदेयं मालिका म्लायेत्तदैव मत्सतीत्वमपि खण्डितमवगन्तव्यमितरथा नैवेति तथ्यं जानीहि । "
इत्यादि तदुक्तिश्रवणेन समुद्भूतप्रभूताश्चर्यस्तत्प्रार्थनमङ्गीकृतवानहम्। ततः शुभे दिने महता महेन तत्पिता तां चम्पकमालानाम्नीं मया सत्रोदवाहयत । तदनु पित्रार्पितकौतुकोत्पादिदासदास्यादिगजतुरङ्गादिसमृद्धियुतां तामुद्वाहितां कन्यां सच्छीलामहं निजगृहमानिनाय । सैवैषा चम्पकमालिका तदखण्डितशीलसूचिका तदर्पिताऽद्यापि सद्यो गुम्फितेव दृश्यमाना मम कण्ठे विचकास्ति । गतेष्वपि द्वादशवत्सरेषु तस्याः सतीत्वमाहात्म्यादद्यपर्यन्तं देवतार्पितेव न शुष्कतामध्यगच्छत्, किन्तु तात्कालिकीव शोशुभ्यते ।
राजन्! एतदाश्चर्यमसम्भवं वा मा मंस्थाः । यतः - शीलानुभावादेव सीतायाः परीक्षाकाले दहनकर्माऽप्यग्निर्जलवच्छीतलो जज्ञे । कमलावत्या अपि छिन्नौ करौ शीलप्रभावात्पुनर्लोकसमक्षमेव जज्ञाते। सुदर्शनस्य श्रेष्ठिनस्तन्माहात्म्यादेव पश्यत्सु नृपादिलोकेषु शूलिका स्वर्णसिंहासनमजायत । महासती दमयन्ती खलु शुष्कतां गताया नद्या वारिप्रकटनमकरोत् । प्राफुल्लयच्च निजभर्त्रेऽर्पितं कमलं शीलमहिम्नः शीलवत्यपि । सुभद्राऽऽमतन्तुयोगाच्चालिन्या कूपाज्जलमक्राक्षीच्च । तथा मम स्त्रियाः सच्छीलमाहात्म्यात्तावकीना विमलतरा सत्कीर्त्तिरिव मत्कण्ठस्था मालेयं जातुचिदपि नैव शुष्यति । जगति शीलप्रभावो वचोगोचरतां नैव व्रजति । यतः-"शीलशालिनां वचनमचेतनेयं स्रगपि नोल्लंघयितुं प्रभवति,
252