________________
श्री चम्पकमाला - चरित्रम्
तृतीय- प्रस्तावः
वा तुल्या एव जायेरन् । भ्रातरो वा सर्वे समानप्रकृतिका एव न
भवन्ति। तदुक्तम्
एकोदरसमुत्पन्ना, एकनक्षत्रजा अपि ।
न भवन्ति समाचारा, यथा बदरिकण्टकाः ||३१||
एकस्मादुदरात्समुत्पन्नाः, तथैकस्मिन्नेव नक्षत्रे
जायन्त इत्येकनक्षत्रजा बदरिकण्टका यथा समाचारा = एकाकारा न जायन्ते, तथैकमातुर्जाता भ्रातरः स्वसारो वा समाचारा = तुल्याचारविचाराः सदृशस्वभावा नैव भवन्ति ।
व्याख्या
-
अन्यदपि मतिमन्! जगत्यामस्यां फल-पुष्प-पत्र - पुरुष - दन्ति - तुरगोपल - कमलप्रमुखा एकस्थानजाता अपि नानाप्रकृतिका जायन्ते, तदन्येऽपि बहुशः पदार्थाः प्रकृतिभिन्ना दरीदृश्यन्ते चेत्तर्हि स्त्रीजातौ सा प्रकृतिः कथं नो भिद्येत?, भवत्येवेति निश्चयं विदाङ्कुर्वन्तु तत्र भवन्तः। गुणानां प्रवाससंवासाभ्यामर्थात्तदीयाऽवगुणसंसर्गाच्चिरपरिचयाद्वा यथा सा दुःशीलाऽऽसीत्तथैवेयमपि तदनुजा भविष्यतीति मा संशयीथाः । यतः - सज्जनो जनो दुर्जनानां गोष्ठ्यां तिष्ठन्नपि तत्परिचयं कुर्वन्नपि लेशतोऽपि तदीयदुर्जनतां नैव भजते। यथाऽऽजन्म- महाभोगिभोगस्थितो मणिः स इव दुःस्वभावः परेषां पीडाकारी न जायते । यद्यप्यहं तस्या अनुजास्मि तथापि तत्तुल्यस्वभाववतीभूय सेवाऽकृत्यं नैवाऽऽचरिष्यामि स्वप्नेऽपि । अथवा यथा क्वचित्कूपे पतितमात्मीयमपि जनं विलोक्य तत्पृष्ठे मतिमान् नैव पतति तथैवाऽहमपि तदनुकारिणी नैव बुभूषामि । अत एव ज्यायसीं में स्वसारं दुराचारिणीं विलोक्य तदनुजां मामपि मा जहाहि ?, "क्षीराद्विरक्तः कश्चिद्दधि जहाति किम्?" एतद्विषये निस्त्रपेव बहु किं जल्पामि - " भवदधिग्रीवं या चम्पकमाला मया निहिता सैव मामकं सतीत्वं बोधयिष्यति, यावन्मे शीलम
251
-