________________
तृतीय-प्रस्तावः
श्री चम्पकमाला-चरित्रम् । मियाय?, इति गद्गगिरा जल्पन् स हट्टान्तस्तं शवं नीत्वाऽतिगम्भीरं गतं खनित्वा तत्र तच्छवं निक्षिप्य निधिमिव पुनर्मूदाऽऽपूर्य चिरकालिकमतिघनिष्ठं तत्प्रेमाणं स्मारं स्मारं चिरं रुदच्छुशोच सः। तस्य जारस्वर्णकारस्य सकलमुदन्तमुद्वीक्ष्य पश्चान्निजस्थानमागत्य सर्वमेतत्स्वमित्रमभ्याहरम्। सोऽप्येतत्सर्व तस्याः पितरमवादीत्, इत्थं सर्वत्रान्तःपुरे तद्वार्ता प्रससार, अत एव सर्वेषां तेषां मनसि महती चिन्ता प्रादुरभवत्, किन्तु महतामेतद्धानिकारीति विचार्यैतद्वृत्तं समुद्रो वाडवाग्निमिव गोपायाञ्चकार तत्पिता। तेनाऽन्ये केऽपि न विदाञ्चक्रिवांसः। दुःखहेतुभूतेयं वार्ता तस्य गृहे सर्वांल्लोकान् व्यापत्। यतो हि "लशुनस्य गन्ध इव गुतीकृताप्यनाचारवार्ता गुसा नैव तिष्ठति, किन्तु प्राकाश्यमधिगच्छत्येव।"
ततश्चिन्तितानामेषां सदने मया न स्थातव्यमिति निश्चित्य खिन्नचेता यावदहं स्वनगरी प्रति यियासामि तावन्मां वरीतुकामा करकमलयोश्चम्पकस्रजं दधाना, चम्पकमालाऽभिधाना, मत्पत्न्याः कनीयसी स्वसा समागत्य ममाग्रे तस्थौ, महीयसा हर्षेण मयि कटाक्षमालां मुञ्चमानातित्वरया मदधिग्रीवं तां वरमालां पर्यधापयत्सा। आख्यच्चैवम्-महाभाग! त्वां भर्तारं कर्तुमहमत्रागतास्मि। अतो मे भर्ता भव?, मत्प्रार्थनं विफलं मा कृथाः?, यतः"महाजनाः खलु कस्यापि प्रार्थनां भक्तुं मनसि बिभ्यत्येव।" तदनन्तरं मयैवं भणिता-सुन्दरि! या ते ज्यायसी भगिनी मामकी पत्न्यासीत्तस्याः स्वभावं जानन्नहं त्वां कथङ्कारमुररीकुर्याम्?, यतस्तस्या एव भवत्यपि लघीयसी भगिन्यस्ति तदनुरूपप्रकृतिकैव भविष्यतीति निश्चीयते। तच्छ्रुत्वा तया पुनयंगादि-महाभाग! इति कश्चिदेकान्तनियमो नास्ति, यत्सर्वा अपि स्वसारः प्रकृत्या गुणादिना
250