________________
श्री चम्पकमाला-चरित्रम्
___ तृतीय-प्रस्तावः मापन्ना तत्कालमेव कदलीस्तम्भमिव भूमौ निपतिता व्यसुरजायत। येन कारणेन मर्मवाक्यं नूनं महाऽनर्थमापादयतीति कथयन्ति सुधीजनाः। ततोऽहमधःपतितामधोमुखीमचेष्टाऽवयवामुच्छ्वासरहितां तन्द्रितनयनां तां स्त्रियं प्रकाशमानीय विलोक्य मृतेयमिति निश्चिकाय। अहमपि तदैव कोपावेशादुल्लसिताऽतिवीर्यधैर्य एकाक्येव व्याघ्रो गामिव तां 'व्यसुमुत्पाट्य गृहद्वारमागाम्। तत्र च ग्रामान्तराऽऽगतज्ञातीयजनताबाहुल्याद् द्वारमनर्गलं तद्रक्षकाऽभावं चाऽपश्यम्। तदा शनैः कपाटमुद्घाट्य लौकैरलक्षितस्तज्जारस्वर्णकारहट्टमागत्य हट्टस्य द्वारे तथा तामतिष्ठिपं यथाऽधो न पतेत्, प्रागागत्य यं सङ्केतं सा करोति स्म, तमेव सङ्केतं कृत्वा यथा कोऽपि न विद्यात्तथा कियद् दूरं गत्वाऽतिष्ठम्।
सोऽपि जारस्तदैव सङ्केतेन पुरेव तदागमनमवगत्य झटित्येव कपाटमुद्घाट्य हसन्नित्यवक्ताम्-अरे! इदानीमर्धरात्रे मामकी निद्रां भक्तुं कथङ्कारमागाः?, अहो! कीदृशं ते धाय॑म्?, स्नेहे च गाढनिष्ठता कीदृशी वर्तते, एतद् द्वयमपि वचनाऽगोचरतां गतवदिति लक्ष्यते?, त्वमन्तः किमिति नागच्छसि?, कुपितेव चिराबहिः कथं तिष्ठसि?, कपाटे समुद्घाटिते पुरा कदापि विलम्ब नो कृतवती?, अद्य किमभूत्, येन नो भाषसे?, किं ते मनसि रोष उदपद्यत?, मदीयहास्यवचः सहस्व?, मद्धट्टमध्ये समागत्य मत्पाघे गृहान्तः कथं नाऽऽगच्छसि?, इत्थं बहुधा तेन स्वर्णकारजारेण न्यगादि, तथापि शवतां गतवती सा यदा नाऽऽगतवती तदा स एहीत्युदीर्य तस्या वसनमक्राक्षीत्। तदा निष्प्राणा सा स्त्री काष्ठमूर्त्तिरिव भूमौ न्यपसत्, तामकस्मान्मृतामवगत्याऽत्यन्तं विस्मयं मनसि सोऽधरत्। किमियं मदनशरजालनिपीडनमसहमाना व्यपद्यत?, किं वा केनापि दुष्टहिंसकेन कदर्थिता सती पञ्चत्व1. विगतानि असूनि यस्याः सा ताम्
249