________________
श्री चम्पकमाला - चरित्रम्
तृतीय- प्रस्तावः भवति, तस्मिंस्तु मुक्तापि सा नैव याति । विद्यमाने च रागे विशिष्टमपि रूपं चक्षुषोरमृताञ्जनसाम्यं जायते, अन्यथा तदेव लवणाञ्जनमिवोद्वेगकार्येव जायते । निशाया आद्ययामे गते सति सुसज्जितायां शय्यायां निद्रया निमीलितप्रायलोचनोऽहं यावत्सुषुप्सामि तावदन्तर्विरक्ता बहिरनुरक्ता सुवसना परिहितसर्वाभरणा समागत्य सामर्षस्य मे चरणौ परिमर्दितुं लग्ना । तदाऽहं जागरित इव भवंस्तामपृच्छम्-" त्वं कासि ?, किमिदं कुरुषे ?" तयोक्तम्"अहं ते पत्नी, त्वदीयचरणकमलयोर्भक्तिं कुर्वे । " पुनरहमवादिषम् - सुन्दरि ! त्वयेदं साधु नाऽकारि, यत्स्वप्नं विलोकमानं मामजागरीः? "तदा तयोक्तम्- प्राणनाथ! त्वमधुना यं स्वप्नमपश्यस्तं मामपि ब्रूहि ? यदहं ते प्राणप्रियाऽस्मि, मत्तस्तेऽवाच्यं किमपि नास्ति । " तदाहं न्यगदम् - यद्येवमस्ति तर्हि सावधानतयाऽऽकर्णय?
-
अहं हि तव सद्मनि द्वारपालोऽभूवम् त्वं च मोदकैः पूर्ण स्थालं मयोत्पाटयामासिथ, तदनु त्वत्पृष्ठेऽहमपि तत्स्थालमादाय चचाल, ततो यत्र ते जारस्तिष्ठति तस्य स्वर्णकारस्य हट्टे त्वमगाः, तत्र गत्वा त्वं मां न्यवीवृतः प्रोक्तवती च यावदागच्छामि तावज्जागरितेन त्वया स्थातव्यमिति, तदनु स स्वर्णकारो महता क्रुधाअरे! गतरात्रौ सङ्केतं कृत्वा पुनस्त्वमत्र कथङ्कारं नाऽऽगतवतीत्याख्याय ते चपेटामदात्, तदीयचपेटा ताडिता, ( तदा) ते शिरसोऽधस्तात्पतितं चूडामणि यावदहमग्रहीषि तावदेव त्वं मामजागरीः, इति । "
दृष्टार्धस्वप्न आयतौ महालाभकारीति प्रतिभाति । तस्मान्मध्ये यत्त्वं जागरयाञ्चकर्थं तदशोभनमजायत । महेर्ष्यालुरहं स्वप्नव्याजेन तत्सर्वं सूचितवान्। साऽप्यबोधि यन्मदीयं दुश्चरित्रं सर्वमयं वेत्तीति मर्मवेधमदीयवाक्याऽतितीक्ष्णबाणविदीर्णहृदया लज्जाभीति
248