________________
श्री चम्पकमाला-चरित्रम्
तृतीय-प्रस्तावः गुञ्जभिरलिकुलैरिव बन्दिगणैस्तोष्ट्रयमानो, महार्हसुरत्नजटितसौवर्णाभरणैर्दिव्याम्बरैश्च शोशुभ्यमानः, शतशः पत्तिभिरनुगम्यमानः, परश्रियः सुषमां दधानः, पथि च नानावाद्याडम्बरबधिरीकृताम्बरः, कौशाम्ब्यां पुयां कमलायाः सदनं श्रियःपतिरिवाऽहं श्वशुरसदनमीयिवान्। मदागमनमाकर्ण्य मामकश्यालादयः सम्मुखमागताः कल्पतरुममरा इव, मामधिकं मन्यमाना महतोत्सवेन पुरं प्रावेशयन्, एवमजल्पंश्च-आवुत्त! त्वमात्मीयानप्यस्मानियन्ति दिनानि विसस्मर्थ?, तावकमेतद् दर्शनं नो नयनानि कौमुदीव कथङ्कारमियद्भिर्वः शिशिरीचक्रे?, जीमूतं कलापिन इव तत्र भवन्तं द्रष्टुमौत्सुक्यवन्तो वयमद्य श्रीमन्तं भवन्तमालोक्याऽमन्दानन्दसागरे निमग्रा जज्ञिमहे। इति तदुक्तीः श्रुत्वाऽहं दध्यौअहो! सर्वोऽप्ययं सत्कारादिर्मदीयो नो जायते, किन्तु लक्ष्म्या एव। यस्मात्पुरा रङ्करूपेणाऽत्रागतं मां केऽपि किमपि नैव पप्रच्छुः, न वा केऽपि परिचितवन्तः, किमधिकं प्रतीहारोऽप्यन्तःप्रविशन्तं मां न्यवारयदेव। सम्प्रत्येतादृशं सत्कारमेते वितन्वन्ति। तदनु ते सर्वे महताऽऽदरेण नानाविधदिव्यसरसस्वादिष्टपक्वान्नादि मां भोजयामासुः। ततः श्यालवर्गः साकमनेकविधं सरसं सश्लेषमालपन् क्रीडितुमारब्धवान्। यतो हि-"धीमन्तो जनाः शास्त्रचर्चया काव्यनाटकादिविनोदेन वा कालं गमयन्तीति।" तदुक्तम्
काव्यशास्त्रविनोदेन, कालो गच्छति धीमताम् । व्यसनेन च मूर्खाणां, निद्रया कलहेन वा ||३०||
दुराचारिणी मन्मनसो बहिष्कृतां तां मत्पत्नीं त्वहं दृशा नाऽपश्यम्, यस्माल्लोकानां मनोऽनुसारिण्येव दृष्टिः परिपतति। मनो हि यत्र रज्यति तत्रैव रुद्धापि दृम् यच्छति, यत्र मनो विरक्तं 1. आवुत्त-जीजाजी
247