________________
तृतीय-प्रस्तावः
श्री चम्पकमाला-चरित्रम् यदा तमभनजं तदैव तन्मध्यादुत्तमाक्षरमालैका पत्रिका निरगात्। विस्मयोपविष्टचेताः प्रफुल्लनयनोऽहं झटित्येव तां लात्वा वाचयित्वा चेत्यबोधि-"अहं हि गृहान्तरे लघ्व्यां गुप्तकोठयां वामभागे दीनाराणां चतस्रः कोटीरतिष्ठिपम्" इति पठित्वा महासिद्धेः पाठसिद्धमहामन्त्रमिवाऽत्युग्रं वाङ्मनसोरगोचरमसीमं हर्षमलप्सि। यद्यपि तदानीं तत्र ममाऽऽगमनं मुख्यतया प्रथमं क्लेशाऽतिशयकार्यभूत् तपस्विन इव, परन्तूत्तरकाले निरतिशयसुखदायकमेव बभूव। किञ्च "पुत्र्या एष चूडामणिः कदापि नो देयः, वध्वा एव दातव्य इति" या मातापित्रोः पौनःपुन्येन शिक्षाऽऽसीत्तस्या अपि तत्त्वं तदैवाऽबोधि।
तदनु तच्चूडामणिविक्रयाज्जातशम्बलोऽहं महतोत्साहन चम्पानगरींप्रति चलितवान्। क्रमेणाऽचिरादेव तत्र पुर्यां स्वगृहमागाम्। तस्यामेव रजन्यां पत्रान्तर्लेखानुसारेण मनसि साहसं विधाय पृथ्वीं खनितुं प्रावर्ते, निरालस्येन खनंश्च समुद्भूतं स्वीयं सुकृतपुञ्जमिव तन्निधिमपश्यम्। जिजीविषुम्रियमाणः प्राणमिव लोचनाभ्यां विहीनो नयनमिव तमासाद्य निरवधिमानन्दमध्यगच्छम्। अथ तन्निधानाऽऽकृष्टलक्ष्मीप्रभावादचिराद्विशिष्टानि सदनानि वसनान्याभरणानि च चक्रिरे। किमधिकं जल्पामि-तदानीं देवालयमपि जयन्ति, शोशुभ्यमानानि च मे सदनानि बभूवुः। इत्थमनेकं गगनचुम्बिसप्तभौमपञ्चभौममनेकविचित्रचित्रचित्रितं सुरेशभवनोपमं सदनं नानादासदासीगणसुसेवितं परमर्द्धिकमत्युज्ज्वलं विहितवान्। अनेकमदस्राविगजाली बहूनुत्तमान् सुलक्षणानश्वान् रथांश्च चक्रिवान्। अथैकदा महास्वरूपैर्लेखकगणैः परिवृतः सुरराज इव, कियद्भिः सुलक्षणतुरङ्गमारूढः परिवारैरनुनीयमानः, श्वेतमहाजवशालितुङ्गतमाश्वोपविष्टः, सेवकवर्गः शिरसि ध्रियमाणातिप्रौढमयूरबर्हच्छत्रो, मदस्रावी गजराजो मदगन्धलोलुपै
246