________________
तृतीय-प्रस्तावः
श्री चम्पकमाला-चरित्रम् वैदेशिकमनुकूलं द्वारपालमकरवम्। तत एव त्वद्दर्शनविरहाकुलाऽत्यन्तदुःखिता महता कष्टेन दिवसं नयन्ती मदनातुरा त्वदन्तिकमहमागतवती। प्राणप्रिय! अत एवाऽनपराधिनी मामुररीकुरु?, तिरस्कारं मा कृथाः। यथा भक्त्यार्पितान्मोदकान् प्रसन्नमना गणेशो गृह्णाति, तथा प्रेम्णाऽऽनीतानेतान्मोदकान् सरसान् गृहाण। मयि मा संशयीथाः, यदहं त्वदन्यं कमपि स्वप्रेऽपि नैव कामये। तस्मात्सौम्यदृशा मां विलोक्य पुनीहि च, मदीयं दुःखं दर्भमिव छिन्धि, इत्थं तस्याः सस्नेहं वचो निशम्य स जारः स्वर्णकारस्तस्यां प्रससाद। तदानीतं मोदकैर्भूतं स्थानं सहर्षमङ्गीकृत्य तामवोचत् सुन्दरि! अज्ञानान्मया त्वयि यदकारि तिरस्कारादि तत्क्षमस्व।
राजन्! स्वस्त्रिया एतदाचरणमालोक्य मनसि जातवैराग्यः सखेदमहं स्वस्थानं प्रत्यचालिषम्। चिन्तयितुं लगश्चैवम्-रे जीव! यामीहमानस्त्वमत्रायातोऽसि, सा तु दासमकरोत्, जारं च निषेवते। अहो! स्वप्रेयसीं भुञ्जानं जारं निहन्तुं शक्तिं किमिति न बिभर्षि?, तथा विधातुं क्लीबायमानमात्मानं किमिति नो हिंससि?, रे दैव! मम पित्रादिपरिवारधनगृहादिकं विनाश्य तज्जन्यमसह्यं कष्टं दर्शयित्वा किं नाऽतुष्यः? यदधुना निजस्त्रीपराभवजं दुःखमदो दर्शयसि?, अहो! सद्वंशजाऽपीयं मे स्त्री कुलटा कथङ्कारमजायत?, अथवा या खलु विष्णुनोर्वशी निरमायि सापि सुरनगरे देवानां वेश्या किं नो जज्ञे?, तीयं मे पत्नी कुलटाऽजनि तत्र किमाश्चर्यम्। हंहो! मामकेनैव दोषेण कुलजाया अपि स्त्रियाः कुलटात्वं लक्ष्म्या विनाशश्चाऽभूत्। यतोऽहमुभावप्युपेक्ष्य द्वादशवर्षाणि गणिकामसेवे, सर्वोऽप्ययं ममैव दोषः। अथवा मद्वियुक्ताया अपि स्त्रिया एतदाचरणं नो युज्यते। यतः "सूर्यविकाशिनी कमलिनी सूर्येऽस्तंगतवत्यपि 1. यतोऽहमुभे अप्युपेक्ष ।
244