________________
श्री चम्पकमाला-चरित्रम्
तृतीय-प्रस्तावः तस्थिवान्। नैशिकान्धकारबाहुल्यात्तत्रैव चौरवत्स्थितमपि मां सा नैव विदाञ्चकार। तत्रावसरे तस्याः सङ्केतेन तदागमनमवगत्य स जारस्तत्रागात्तूर्णमेव कपाटमुन्मुच्य कोपातिशयेन कम्पितगात्रस्तामित्थं निगदितुमारेभे-अरे! कृतसङ्केतापि त्वं गतायां रजन्यां कथमत्र नाऽऽयासीः?, किं ते कोऽप्यन्यो बलीयांस्तरुणः कामुकः पुमानमिलत्?, अहं तु तव कृते शङ्करोऽतिदुर्धरं कालकूटमिव जागरणं सेवे, त्वं तु केनचिबलीयसा सरसेन यूना कामुकेन सह सुखेन रमसे चिरं निद्रासि च। तस्माद् रे पापिष्ठे! याहि, याहि, सत्वरमितोऽपसर?, पृष्ठं दर्शय?, अहो! येन तावकलेहदहनेन समेधमानेन मदङ्गसदनं भस्मसाच्चक्रे तेनाऽलमिदानीम्, इत्युदीर्य तस्याः शिरसो वसनमाकृष्य क्रुधा प्रज्वलितेन तेन स्वर्णकारजारेणाऽन्तःप्रविष्टव्यन्तरेणेव भासमानेन चपेटाऽदायि, तत्प्रहारेणाऽतिजीर्णतरसूत्र-ग्रथितं वधूकालिकं चूडामणिरत्नं त्रुटित्वाऽधस्तान्यपतत्, सा नैव विवेद। परन्तूच्छलत्तद्रत्नं मामकचरणाऽधः समागात्तज्जाने मद्भाग्योदयादाकृष्टश्चिन्तामणिरेवाऽऽगादिति हेतोस्तच्छिरोरत्नमहं युक्त्या जग्राह। सा कुलटा च स्वर्णकारपादयोः पतित्वैवमभ्यर्थयितुमलगत्-नाथ! कोपं जहाहि, मयि प्रसीद, यथास्थितं मद्वचः समाकर्णय?, निरागसं त्वदेकमनसं मां मुधा हन्तुं कथङ्कारं प्रवर्त्तसे?, गतरजन्यामागन्तुं चलिता द्वारपालेन न्यवारि, बहुधा प्रार्थितोऽपि स दुर्धीः कपाट नैवोदघाटयत, पुरा स मदनुकूल आसीत्, इदानीमेव दैवात्प्रातिकूल्यं निनाय। विधौ प्रतिकूले विधाविव सदैवानुकूलो भवन्नपि स पुमान् वैपक्ष्यमेव नीतवान्। तेनाऽहं तत्रावसरे जले क्षिप्ता हस्तिनीव वागुरायां पतिता मृगीवाऽवाच्यं दुखं यदन्वभूवं तद्विपक्षोऽपि जात्वपि माऽनुभूदिति। तस्मादेव दोषात् प्रातःकाले किमपि तदीयदूषणं पितरं निगद्य तं निष्काश्य तत्स्थाने कञ्चिदपरं
243