________________
तृतीय- प्रस्तावः श्री चम्पकमाला - चरित्रम् समुदिते त्वत्सेवका इव समुल्लसति दिवामणौ रथाङ्गनामानः पक्षिणोऽतितरां प्रामोदन्त । तावका वैरिण इव घूकाः पलायिषत। नाथ! तदानीं तावकीनं धैर्यमिव कनकगिरावुदयमधिगतं दिवाकरं पण्डिता उपस्थातुमारेभिरे । भवतः सेवका इव कमलवनानि नितरां जहृषुः। अस्मिन्नपि वासरे भिक्षायै तद्गृहमागामहम्। अथ भिक्षां ददाना सा मे पत्नी मामित्यपृच्छत् - भिक्षो! कोऽसि ?, का च ते जातिः?, तदाऽवोचमहम् - सुन्दरि ! वणिक्कुलजातिमवेहि । तदाकर्ण्य पुनरवोचत् सा, भो भद्र! त्वं मे गृहस्य द्वारपालो बुभूषसि ?, तद्वचनं क्षुधातुरस्य भोजनमिव पिपासाकुलस्य शीतलमतिमिष्टं वारीव भृशमरोचत तच्चरित्रं बुभुत्सवे मह्यम्। तदनु तदुक्तिस्वीकारे पूर्वस्मिन् रक्षके नैशिकरोषात् किञ्चिद्दूषणं पितुरग्रे समारोप्य तदैव पित्रा तं द्वारपालं पृथक्कारयित्वा तत्स्थाने मां नियोजितवती । तद्दिने सा स्वसमीहितसिद्धये यथेष्टं सरसं मामाशिशत्। " यस्मात्स्वार्थसिषाधयिषया लोको हि गर्दभमपि पितरं जल्पति।” अतो मामपि सरसभोजनमधुरवचनादिना वश्यमकरोत्। रात्रौ च सकले लोके सुप्ते सति सर्वाभरणवसनविभूषिता प्रमुदिता मदनातुरा मोदकादिसरस भोज्यपूर्णस्थालं करकमले दधाना सा मदन्तिकमागत्य समूचे - भद्र! त्वरया द्वारमुद्घाटय?, अहमपि तूर्णमेव कपाटमुद्घाटितवान् । तदनु तद्वचसा तद्दत्तस्थालमादाय तया सत्राऽहमचलम् । अथ सा स्ववाञ्छितजारस्वर्णकारस्य हट्टे समागत्य मद्धस्तात्तत्स्थालं गृहीत्वा मामुक्तवती - भोः ! याहि, द्वारं रक्ष, यावदहमागच्छामि तावज्जागरितेनैव त्वया स्थातव्यम् ?, तदा तस्या विश्वासोत्पादनाय गृहाभिमुखं व्रजित्वा पुनर्गुप्तरीत्या तच्चरित्रावलोकनाय तत्रागत्य
1. परा+अय्
242