________________
श्री चम्पकमाला-चरित्रम
तृतीय-प्रस्तावः धिगच्छन्मामकमशुभकर्मेव पापीयसामाह्लादकरं तमसः परिस्फुरणं जज्ञे।
तदनु नैशिके प्रथमे प्रहरेऽपगते द्वारि कपाटं पिधायार्गलं दत्त्वा द्वारपालः स्वस्थमनाः सुष्वाप। कपाटतो बहिरेवाऽहमपि शयितवान्। किन्तु चिन्तातुरत्वान्मनागपि निद्रा मे नाऽऽगतवती। ततो मध्यरात्रे मामिका स्त्री तत्रागत्य द्वारपालमवक्-आर्य! किमप्यावश्यक प्रयोजनं मेऽजनि, अतस्तत्राहं जिगमिषामि, सत्वरं द्वारमुद्घाटय, यावदहं ततः परावर्ते तावद् दत्तार्गलं मा कृथाः। तावदप्रमत्तेन त्वया जागरितव्यमस्मिन् कार्ये शिरो मा धुनीहि, इति निगदन्त्यां तस्यां प्रचण्डतामुपनीतो द्वारपालस्तामेवमुवाचइदानीमनवसरे रजन्यां क्व यियाससि?, किञ्च ते कार्य वर्तते तद् ब्रूहि?, यतः-"एतर्हि तस्करप्रमुखा एव प्रचरन्ति, कुलीनास्तु सदनान्तरेव तिष्ठन्ति।" अत इदानीं यच्चिकीर्षसि तत्प्रभाते करणीयमिदानी परावर्त्तस्व। यदहं निशीथसमयादशेषरात्रं जागरितुं नैव शक्नोमीति तदुक्तिमाकर्ण्य निरस्तातिदुःखिता, क्रन्दन्ती मनसि समुद्भूतप्रभूतक्रोधाग्निज्वालाजटिला, विच्छायवदना स्वस्थानं प्रत्यावर्त्तत। तदानीं विनिद्रोऽहमुभयोरुक्तिप्रत्युक्ती समाकर्ण्य व्यचिन्तयम्-हंहो! या कामिनी निरन्तरमर्धरात्रे क्वचिदन्यत्र बहिर्याति सा नूनं व्यभिचरत्येव, तस्मादेषा क्व याति किमाचरतीति मया येन केनोपायेन वेदनीयमित्यवधार्य स्वस्थीभूय किञ्चिदस्वाप्सम्। अथ याते च प्रभाते कमलेन सहैव प्रफुल्लमना उत्थाय गगने कर्मसाक्षीव जगच्चेष्टितविलोकनाय निजस्त्रियाश्चेष्टितविलोकनायाऽम्बरं ध्रियमाणस्तत्परोऽभवमहमपि।
स्वामिन्! तत्रावसरे तत्र भवतामरातिगण इव तमःपटलो ननाश। भवद्राज्ये तस्करा इव तारा अपि तिरोदधिरे। त्वयि
241