________________
तृतीय-प्रस्तावः
श्री चम्पकमाला-चरित्रम् यशोऽधिगन्तुं सुखलिप्सया वा, मनुष्यसंख्यामतिवर्तितुं वा। निरुत्सुकानामभियोगभाजां, समुत्सुकेवाङ्कमुपैति सिद्धिः ||२८||
व्याख्या - ये खलु महत्तरं यशः = कीर्तिमधिगन्तुमुशन्ति, सर्वाधिकं सुखं वा लिप्सन्ति = लब्धं वाञ्छन्ति, मनुष्यसं - ख्यामतिवर्तितुं = यत्केनापि नाऽकारि जन्मवता तत्कर्तुमिच्छन्ति, तेषां निरुत्सुकानां गृहपुत्राद्युत्सुकतां हित्वा तदुद्योगिनां तत्सिद्धये प्रयतमानानां पुंसामई समुत्सुकेव = समौत्सुक्यादिव तत्सिद्धिरुपैति, अनायासेन सिध्यतीति भावः।।
इति हेतोरहमत्रैव तिष्ठानि, कदापि मामभिज्ञास्यति चेदभीष्टं सेत्स्यति। यतः सा मे पत्नी मां चिरान्नाऽपश्यदतः क्रमशश्चिरादेव लक्षितुं शक्नुयात्। चिराददृष्टमात्मीयमपि जनं झटिति प्रत्यभिज्ञातुं कोऽपि नैवाऽर्हति। परिचितोऽपि जनश्चिरं विस्मृतश्चेदरं' स्मृतिपथं नैवाऽऽरोहति। इत्थमनेकविधचिन्तासागरे निमनस्य विधिप्रातिकूल्ययोगाद्रकोचितदशामापन्नस्य मे दिनावसानमध्यजायत। तन्मन्ये जगच्चक्षुरपि मदीयं दुःखमालोकमानः प्रातरुदयमधिगच्छामि, सायं पुनरस्तमुपैमीति हेतोः कर्मगतिं भुक्ष्व, मनागपि मा शोचीरिति मामाश्वासयन्निव चरमाचलमारूढवानिति। याते च सूर्यास्ते कान्ताविरहजन्याऽदभ्रक्लेशभिया चक्रवाकोऽपि मया सत्रा प्रियतमावियोगादतिदुःखमनुभवन्नतितरां चुक्रोश। तत्रावसरे वेश्याराग इवाऽस्थिरः सन्ध्यारागः सर्वत्राऽपुस्फुरत्। किन्त्वहमिव कमलाकरो विच्छायतामयासीत्। मम दुःखमिव तिमिरनिकरः सर्वत्र प्रससार। मामालोक्य मद्विपक्षा इव कैरवकुलं समुदिते निशाकरे नितरामहृष्यत्। किञ्च निवारिताऽशेषसारव्यापारलोकसञ्चारा त्रियामापि मामिका दुर्दशेव निःश्रीका तस्थौ। उदयम1. अरं-शीघ्र
240