________________
श्री चम्पकमाला-चरित्रम्
तृतीय-प्रस्तावः लक्षितवन्तः। नह्येतावदेव, किन्तु द्वारि गतं मामन्तः प्रवेशाय प्रतिहारी रङ्कमिव निषिषेध।
राजन्! किं ते निगदामि?, तत्रावसरे दुर्दैवः किङ्कर्त्तव्यतामूढोऽहं भिक्षुवेषधारीभूय तैः सहान्तः प्राविशम्। तदानीं सर्वेभ्यो भिक्षां ददाना मत्पत्नी मेऽपि भिक्षां दत्तवती, किन्तु भर्ताऽयमिति न जानाति स्म। चिरादर्शनाद्रकोचितवेषाच्च भिक्षुमध्यगतं मां नैव प्रत्यजानीत यदा मत्पत्नी, तदाऽहमात्मपरिचयमस्यै दद्यामिति यावदैच्छं तावद् भ्रकुट्या विलक्षणमुखशारदपूर्णचन्द्रा सा मामेवमवोचत्-भिक्षो! लब्धायां भिक्षायां त्वमत्र चिरं कथङ्कारं तिष्ठसि, किं चिकीर्षसि?, किं विलोकसे वा?, स्वस्थानं याहि?, इति तदुक्तिमाकर्ण्य तद्गृहान्निर्गत्य क्वचिदासन्नबाह्यप्रदेशे समुपविश्य मनसि खेदमधिगच्छन्नतिदुःखितमना व्यचिन्तयम्-हन्त! कीदृशं मे प्रारब्धमुदैत्, यदहं सर्वत्र तिरस्कृतो भवन्नत्रापि मत्पत्न्याऽपि ज्ञानादज्ञानाद्वा हतभाग्यतयाऽपमानितो बभूवान्। अहो! कीदृशी कर्मणो गहना गतिः, यदा पुंसां भाग्यं जागरितं विलसति, तदा विपक्षोऽपि सम्मनुते सर्वत्रैव सुखमनुभवति। तद्व्यत्यये तु हितोऽप्यहितायते, पदे पदे दुःखमेव भुङ्क्ते। यतः-"त्रिभुवनजिष्णो रावणस्य विलसति शुभावहे प्रारब्धे सर्वेऽपि देवाः सेवायामतिष्ठन्, तस्यैव यदा पुनरशुभा दशा समैत्, तदा निर्भाग्यं दशग्रीवं निजबन्धुरपि बिभीषणः प्रतिपक्षीभूय तत्याजैव।" अत एवाऽधुना मया किमाचरणीयम्?, अत्रैव कतिचिद्दिनानि स्थेयमथवा स्वसदने गन्तव्यम्?, अथवा स्त्रीलक्ष्म्यावुभे विना गृहं गत्वापि किं करिष्यामि?, तस्माल्लक्ष्मीस्त्रियोरुभयोर्मध्यादेकस्यामपि मद्धस्तगतायां सत्यामेव मया स्वगृहं प्रति गन्तव्यमन्यथा देशान्तर एव निवसनं श्रेयस्करम्। यतः-"औत्सुक्यात्कार्याणि न सिध्यन्ति, अपि तु नश्यन्ति।" यदाह
239