SearchBrowseAboutContactDonate
Page Preview
Page 249
Loading...
Download File
Download File
Page Text
________________ तृतीय-प्रस्तावः श्री चम्पकमाला-चरित्रम् जानन्नपि गुणग्राहीत्युच्यते, स एव वक्ता, दर्शनीयः = द्रष्टुं योग्यो जायते, किमधिकं जल्पामि सर्वे गुणाः काञ्चनं = स्वर्णमाश्रयन्ते = तमेवाश्रित्य वर्तन्ते। यथा खलु बीजमन्तराऽङ्कुरोत्पत्तिर्न सम्भवति, तथाऽर्थमन्तरा कश्चिद् व्यापारो मया कत्तुं नैव पार्यते। मूलं विना यद् व्याप्रियते परेषां सेवनादिकं तत्तु परतन्त्रत्वाहुःखनिदानमेवास्ति, नाऽहं तथा चिकीरस्मि, ममेदानीमन्यः कश्चिदपि धनं नो ददिष्यते, श्वशुरपार्थादेव मिलितुं सम्भाव्यते?, नूनमेव निजपुत्रीस्नेहान्मामकीमिमां दुरवस्थामालोक्य समुद्भूताऽदभ्रदुःखप्रचयो दास्यत्येव व्यापत्तुं धनानि। यद्यपि मतिमन्तो लोकाः श्वशुरं जात्वपि धनं नैव याचन्ते, तद्याचनस्याऽवहेलनहेतुत्वात्। तथापीदानीमुपायान्तराऽसत्त्वादनुचितमपि तद्विधातव्यमेव। तदाह - अकार्यमण्याचरणीयमेव, धनेविहीनैरधिकं चिकीभिः । त्रैलोक्यनाथोऽपि बलिं ययाचे, कृत्वा तद् खर्वतरां हिं विष्णुः ||२७|| व्याख्या - अधिकं = महत्त्वं चिकीर्भिः = कर्तुमिच्छुभिः पुंभिर्धनैरथैर्विहीनैरकार्यमनुचितमप्याचरणीयमेव = कर्त्तव्यमेव। यतः- त्रैलोक्यनाथो विष्णुरपि त्रिभुवनाऽऽधिपत्येच्छया खर्वतरां नीचैस्तरां तनुं = शरीरं कृत्वा बलिं ययाचे = याचितवान्। ____ अत एव निजस्त्रीमिलनव्याजेन तत्र गत्वा श्वशुराद्धनमधिगत्य स्त्रियमत्रानीय व्यापार करवाणि चेद्वरमित्यवधार्य प्रथमं पत्नीमानीय गृहदुर्दशामपनीय पश्चाल्लक्ष्म्युपार्जनेन दारिद्र्यमपहार्यमिति निश्चित्य शरीरमात्रसहायश्चरणमात्रवाहनः, प्रयाणोद्भूतप्रभूतप्रस्वेदलगधूलिपटलविलिसाऽशेषगात्रस्तथाऽसंयताऽतिविकीर्णमूर्धजच्छत्रस्तरुपत्रभोजनपात्रोऽहमनुक्रमेण महता कष्टेन कौशाम्बीमासाद्य श्वशुरालयमागाम्, किन्तु रङ्कोचितवेषधारित्वात्तत्र केऽपि मां नैव 238
SR No.022564
Book TitleCharitra Saptakam
Original Sutra AuthorN/A
AuthorJayanandvijay
PublisherGuru Ramchandra Prakashan Samiti
Publication Year
Total Pages370
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy