________________
श्री चम्पकमाला - चरित्रम्
तृतीय- प्रस्तावः मातापित्रोरीदृग्दुःखदातारं, व्यसनाऽऽसक्त्या समुद्भूतप्रभूतदुःखसदनं, चन्द्रावदातमपि निजकुलं मालिन्यं नयन्तं मां धिगस्तु । हंहो! महति सत्कुले समुत्पद्याहमीदृशं नीचैस्तमं व्यसनमसेविषि, अतो मां धिग् धिगस्तु, यतो मया कुलकलङ्किना पूर्वार्जितमपि वित्तं महत्त्वं च व्यनाशि। यथा व्योम्नि नवोदितो नभोमणिस्तमःस्तोमं निरस्य सुषमां दधाति, तथा कियन्तः सन्तः पुत्रा दुःखलक्षणं ध्वान्तनिचयमवधूय निजवंशाऽऽकाशं भृशमुद्द्योतयन्ते, यावज्जीवं निर्मलीभूय शोभन्ते च । निसर्गतो देदीप्यमाने कुले समुद्भूतोऽहमि - वाऽपरः कोऽपि कुलाङ्गारकल्पः पितुर्नामधामरक्षणाऽशक्तो नैवास्ति, यदहं पित्रोर्मरणमपि नाऽवेदिषं वेश्यासक्तचित्तत्वात्। अतो मे विवेकं गाढस्नेहं दाक्षिण्यं विनयं च धिगस्तु धिगस्तु । हंहो ! व्यसनीभूय पूर्वसञ्चिताऽशेषधनविनाशी पित्रोरतिक्लेशोत्पादी सुजनवर्गे कथङ्कारमात्ममुखं दर्शयिष्यामीति । अथवेदानीं यदभूत्तस्य शोकेनाऽलम्, यतः " शोको हि मतिमतामपि मतिं विनाशयति तेन हि पश्चात्क्षयः समुत्पद्यते, तस्मिन्नुत्पन्ने क्रमशः क्षीणं भवदिदं शरीरमेव नश्यति । " अत एव बालिशेनेव मया तदर्थं नैव शोचनीयम् । किन्तु लक्ष्मीलाभनिदानं व्यापारः कोऽपि कर्त्तव्यः । यतो " द्रव्यवतामितरे सकला अप्यनायासेन सिध्यन्ति मनोरथाः । सति च द्रव्ये पुनरपि महत्त्वादिकं स्वयमेव भविष्यति ।" उक्तं च नीतिशास्त्रे
-
=
यस्यास्ति वित्तं स नरः कुलीनः, स पण्डितः स श्रुतवान् गुणज्ञः | स एव वक्ता स च दर्शनीयः, सर्वे गुणाः काञ्चनमाश्रयन्ते ||२६|| व्याख्या इह संसारे यस्य पुंसो वित्तं धनमस्ति विद्यते स नरः कुलहीनोऽपि कुलीनः = सत्कुलवान् मन्यते, स धनवान् मूर्खोऽपि पण्डितः = विद्वान् कथ्यते, स श्रुतवान् = शास्त्रज्ञः, मतिहीनोऽपि मतिमान् निगद्यते, स गुणज्ञः = गुणान
-
237
=