________________
तृतीय-प्रस्तावः
श्री चम्पकमाला-चरित्रम् स्वर्गो दुर्गमनिग्रहः किल हरेरैरावतो वारणः । इत्यैश्वर्यबलान्वितोऽपि बलिभिर्भग्नः परैः सङ्गरे, तद्व्यक्तं वरमेव देवशरणं घिधिवृथा पौरुषम् ||२४||
व्याख्या - यस्य हरेरिन्द्रस्य बृहस्पतिर्वागीशो नेता = नायको मन्त्रयिता, वज्रं = प्रह्वरणमस्त्रम्, सुराः सैनिकाः = सेनाः, अनिग्रहः= परैरप्यधिगन्तुमशक्यः, स्वर्गो दुर्गम्, ऐरावतस्तन्नामा वारणो वाहनम्, इतीदृशैश्वर्यबलान्वितोऽपि स हरिरिन्द्रो बलिभिबलवद्भिः परैः = शत्रुभिः सङ्गरे = संग्रामे भग्नः = पराजितः, तस्मादेवशरणं = भाग्यं = भवितव्यमेव शरणं वरं = श्रेष्ठमिति व्यक्तं = स्फुटम्, वृथा क्रियमाणं पौरुषमुद्यमं धिग् धिगस्तु। तथा च -
मजत्वम्भसि यातु मेरुशिखरं शत्रु जयत्वाहवे, वाणिज्यं कृषिसेवनादिसकलाः पुण्याः कलाः शिक्षतु । भाकाशं विपुलं प्रयातु खगवत्कृत्वा प्रयत्न परं, नाभाव्यं भवतीह कर्मवशतो भाव्यस्य नाशः कुतः||२५||
व्याख्या - इह = संसारे कश्चिदम्भसि = जले मज्जतु, मेरोः शिखरमुपरिष्टाद् यातु तत्र गत्वा तिष्ठतु वा, आहवे = रणे शत्रु जयतु, वाणिज्यं = व्यापारं वा पुण्याः = पवित्राः कृषिसेवनादिकाः सकलाः कलाः शिक्षतु = समभ्यस्यतु, अथवा परमन्यं श्रेष्ठं वा प्रयत्नमुद्योगं कृत्वा खगवत् = पक्षीव विपुलमतिविस्तीर्णमाकाशं प्रयातु, किन्तु कर्मवशतः = कर्मयोगाद् यदभाव्यं तन्नैव भवति, यच्च भाव्यं तदन्यथा नो भवति भवत्येव, यतो भाव्यस्य = भवितव्यतायाः नाशः कुतः = कथमपि नैव जायते, इति तत्त्वम्।
स्वामिन्! इत्थं गृहासन्नवर्तिलोकानामास्यतः पित्रोर्वात्ता निशम्याऽगदनीयमननुभूतमेव दुःखमभूत्, तदाऽहमशोचम्-हन्त!
236