________________
श्री चम्पकमाला-चरित्रम्
तृतीय-प्रस्तावः वदुन्मादकारिबिम्बाधरोष्ठी, दलदरविन्ददलायताक्षी, मयाऽऽलोकि। अथाऽशेषवेश्याश्रेयसी सापि सरसयुवश्रीमञ्जनेन सह प्रीतिं कामयमाना तादृशमनुरागिणं मामवलोक्य स्मेरमुखी कटाक्षयन्ती निजासनादुत्थाय कुड्मलीकृतपाणिपल्लवा जल्पितुमारभत-सुन्दर! अत्राऽऽगच्छ, मयि दास्यां कृपादृष्टिवृष्टिं कुरु, निजवाञ्छितं कथय?, यच्चिकीर्षसि तद्विधेहि, मामकं यौवनं तवाधीनमेवेति सत्यं जानीहि।
राजन्! तस्या इत्थं वचनरचना आकर्ण्य तदीयगुणगणाऽगण्यतारुण्यरूपलावण्यमोहितोऽहमपि तस्याः सदने न्यवात्सम्। रम्भादिवेश्यया सत्रा देवतेव तया साकमनारतं क्रीडितुं लग्नश्च । प्रतिदिनं च यावन्ति धनानि साऽचीकमत, तावन्ति पित्रार्पितानि धनानि तस्यै दातुमलगम्, इत्थं द्वादशवर्षाणि मम तत्र व्यतीतानि। अथैकदा धनजिघृक्षया स्वदासी मत्पितुः पार्श्वमप्रेषीत्परन्तु कृपणालयाद् भिक्षुकमिव धनं विना प्रत्यागतां दासीमुदीक्ष्य मतिविकलाऽर्थमात्रलोलुपा सा वेश्या मामित्यवोचत्-अये पामर! त्वमधुना निर्धनतां यातोऽसि, अत एवाऽतः परं मदीयभोगाशां जहीहि, मम वासं त्यज, निजालयं व्रज। यतः मादृशां सदने निर्धना नैव स्थातुमर्हन्ति क्षणमपि। याः खलु रूपाजीवाः सन्ति ताः समस्ताः सधनानामौदार्यशीलानां पुंसामेव वश्यास्तिष्ठन्ति जात्वपि त्वादृशान् रङ्कान् नैव कामयन्ते, इति सर्वे जानन्ति। निर्धनतां गतवति त्वयि मम प्रेम कथङ्कारमतः परं जायेत?, निर्धनपुरुषं तु सखाऽपि वैरीव पश्यति। तत्र हेतुःजलहीनं कमलवनं पद्मबन्धुर्भूत्वापि सहस्रांशुः किं न शोषयति?, अपि तु शोषयत्येव। किञ्च कलावन्तमपि श्रियोज्झितं पुमांसं मतिमन्तो जनाः कदापि
1. १.२.१७ सिद्ध. पूर्व अ लोप विकल्पे ।
233