________________
तृतीय-प्रस्तावः
श्री चम्पकमाला-चरित्रम् नोररीकुर्वते, किन्तु क्षीणचन्द्रं दैवज्ञा इव त्यजन्त्येव। अतः, इतो याहि, मयि चिराद्यथाऽऽसीदनुरागस्तथाऽग्रे चिकीर्षसि चेद्धनान्युपायं सत्वरं पुनरत्राऽऽयाहि, नान्यथा। इत्थं धनमात्रलोलुपायास्तस्याः कद्वचः संश्रुत्याऽहमित्यशोचम्-हंहो! नूनमेषा धनमात्रं कामयते, दाक्षिण्यतो मनागपि नैव त्रपते, यस्मादियं चिरेण कृतानुरागिणं दत्तभूरिधनमपि मामेवं जल्पन्ती समुज्झति। या खलु धनलोभात्कुष्ठिनमपि मदनमिव मन्यमाना परिषेवते, तस्यामर्थमात्रसारायां तथ्यानुरागः कुतः सम्भवेत्?, न कदाचिदपि। तथा चोक्तम् - जात्यन्धाय च दुर्मुखाय च, जराजीर्णाखिलानाय च। ग्रामीणाय च दुष्कुलाय च, गलत्कुष्ठाभिभूताय च ॥
यच्छन्तीषु मनोहरं निजवपुर्लक्ष्मीलवश्रद्धया । पण्यस्त्रीषु विवेककल्पलतिका-शस्त्रीषु रज्येत कः? ||२३||
व्याख्या - जात्यन्धाय = जन्मान्धाय, दुर्मुखाय = कुरूपाय, जरया = वार्धक्येन जीर्णानि = शिथिलीभूतान्यखिलाङ्गानि यस्य तस्मै बलरहिताय, ग्रामीणाय = चातुर्यादिगुणविहीनग्राम्यजनाय, दुष्कुलाय = नीचैस्तमकुलजाय, गलता = क्षरता कुष्ठरोगेणाभिभूताय = परिपीडिताय, इत्थंभूताय पुंसेऽपि लक्ष्मीलवस्य = स्तोकधनस्य श्रद्धया = लिप्सया मनोहरं निजवपुः = स्वशरीरं यच्छन्तीषु = ददानासु विवेक एव कल्पलतिका = कल्पवल्ली तस्याः शस्त्रीषु= कर्तरीषु पण्यस्त्रीषु = वेश्यासु कः पुमान् रज्येत = रागं बिभृयात्, न कोऽपीति भावः।
इति मनसि विमृश्य स्वीयवसनाऽऽभरणानि सहसैवाऽऽदाय किञ्चिद्दीनमना भवंस्तदालयादहं निरगच्छम्। बहुधा खिद्यमानः
234