________________
श्री चम्पकमाला-चरित्रम्
तृतीय-प्रस्तावः साक्षाल्लक्ष्मीरिव रुक्मिणी नाम्नी तनयाऽऽसीत्। पित्रा च महतामहेन तस्याः पाणिपीडनं मयाऽकारि। ततस्तां प्राणतोऽप्यधिकप्रियां स्वसदनमनैषमहम्। ततोऽहं तया साकं निर्भाग्यप्राणिदुरापमनुपमं भोगं भोक्तुमलगम्। अथैकदा प्रस्तावे पण्डितोक्तं नीतिवाक्यमहमश्रौषम्। तथाहि-यः खलु पितुर्लक्ष्मी भुङ्क्ते स पुमान्महा-पापीयान् देवदारुतरुरिव पितुः सुखाय नैवार्हति। यदुक्तम्जनकार्जिता विभूतिर्भगिनीति सुनीतिवेदिभिः सद्भिः । सत्पात्र एव योज्या, न तु भोग्या यौवनाभिमुखैः ||२१||
व्याख्या - जनकेन = पित्राऽर्जितोपार्जिता विभूतिरैश्वर्यं भगिनी = स्वसेति सुनीतिवेदिभिः = सन्न्यायज्ञैः सद्भिर्महाजनैर्निगदितास्ति, अत एवेयं भगिनीरूपा विभूतिः सत्पात्रे = योग्यतमे पुंस्येव योज्या = प्रदेया, यौवनाभिमुखैस्तरुणैः पुंभिः स्वयं, नतु - नैव स्वयं भोग्या जात्वपीति भावः। अन्यच्च -
स्तन्यं मन्मनवचनं, चापलमपहेतुहास्यमत्रपताम् । शिशुरेवार्हति पांशुक्रीडां भुक्तिं च पितृलक्ष्याः ||२२||
व्याख्या - लोके हि स्तन्यं = स्तन्यदुग्धपानं, मन्मनवचनं यादृशतादृशजल्पनम्, चापलम् = चपलताम्, अपहेतुहास्यम् = अकारणहसनम्, अपनपताम् = लज्जाराहित्यम्, पांशुक्रीडां = धूलीरमणम्, पितुर्या लक्ष्मीर्भगिनी तस्या भुक्तिं भोगं च शिशुरज्ञ एवार्हति कर्तुमिति शेषः, नैवेतरः कोऽपीति।
इति नीतिवाक्यमाकर्ण्य जलमार्गेण द्रव्योपार्जनाय यियासुं मां कदाचिज्जलादुपद्रवः सूनोर्मे स्यादिति शङ्कया पिता न्यषेधीत्। ततोऽहं विविधविक्रेयवस्तूनि वृषभोपरि कृत्वा स्थलेनैव व्यापर्तुं
231