________________
तृतीय- प्रस्तावः
श्री चम्पकमाला -
-चरित्रम्
अथ तृतीयः प्रस्तावः प्रारभ्यते
अथोत्तमोत्तमच्छवी राजा सर्वाङ्गकमनीयस्य तस्य सार्थवाहस्य प्रत्यङ्गोपाङ्गं स्निग्धया दृशा परिपश्यन् सौवर्णिकां चम्पकमालामिव सार्थवाहमूर्ध्निस्थितां चम्पकमालामम्लानामपूर्वामद्राक्षीत्। तामालोक्य मनस्युद्भूतमहाश्चर्यो राजा तमप्राक्षीत् सार्थेश ! मदङ्गसङ्गात्कुसुमस्रगचिरादेव म्लायति, भवन्मूर्धन्येयं कुसुममाला कथङ्कारमम्लाना लक्ष्यते, किमियं देवार्पिता यन्नो म्लायतीति सत्यं निगद?। इत्याश्चर्यवहं क्षितिपतेर्वचः श्रुत्वा सार्थवाहो राजानमवोचत् प्रभो ! यदहं तत्कारणं निगदामि, तदवितथमेव ज्ञातव्यमलीकं मा वेदीः । मम मूर्धनि स्थितेयं माला मत्पत्न्या अखण्डशीलप्रभावादेव न जात्वपि म्लानिमावहते। पुनराह राजाश्रेष्ठिन् ! सम्प्रतिकाले स्त्रीणामखण्डं शीलं शश-विषाणवदेव प्रतिभाति, मया तु काचिदप्यखण्डितशीला कामिनी नैवाऽऽलोकि, तर्हि कथमेतत्सत्यं मन्यामहे ? । सार्थवाह उवाच स्वामिन्! श्रूयतामेतदामूलतः
अङ्गदेशे साक्षाच्छ्रीसदनमिव सर्वर्द्धिशालिनी चम्पा नाम्नी नगरी महीयसी चाचीति । तत्र कुबेरोपमो धन्नाभिधानः श्रेष्ठ्यभूत् । तस्य धनकेलि नामा पुत्रोऽस्म्यहम् । सोऽहं बालचन्द्रमाः प्रतिघस्रं वर्द्धमानो भवन् कलया परिपूर्णीभवंश्च यथा सागरमाह्लादयते तथा क्रमशः प्रत्यहं नवनवाः कला गृह्णन्, शैशवं त्यजन्, सल्लावण्यपीयूषैः पूर्णीभवन्, तारुण्येनोल्लसंश्च निजकुलोदधिं प्रैधयितुमलगम् । इतश्च कौशाम्ब्यां पुर्यां विमलवाहमहेभ्यस्य
230