________________
द्वितीय-प्रस्तावः
श्री चम्पकमाला - चरित्रम् अयमभिप्रायः-शेषो यथा बहुशक्तिमान् भूत्वा क्षमां पृथ्वीं धरते, तत्रस्था लोका असहनीयानप्यपराधान् कुर्वते, तानपि सहते, कदापि धृतां पृथ्वीं नैव जहाति । तथैव ये राजानः क्षमां शान्तिं दधते, प्रजाश्च पालयन्ति, ते तु कृतागसामज्ञानामुपरि क्रोधमपहाय प्रसादमेव दर्शयन्ति । किञ्च सर्वविदां शक्तिमतां क्षमैव सर्वस्वं भवति, अतस्ते महात्मानः क्षमाकाले तेषां दोषानशेषान् विस्मरन्त्येव। यद्यपि जगति शक्तिमतां क्षमा कुत्रापि न दृश्यते, तथापि त्वयि शक्तिशालिन्यपि यदनुपमा सहनशीलता विद्यते तत्प्रशंसनीयमेवाऽस्ति । इयं जगती त्वादृशे क्षमाकारिणि पुरुषरत्ने सत्येव "रत्नगर्भा' इत्युच्यते । तामन्वर्थं त्वमेव कुरुषे, नाऽन्यः कोऽपीति सत्यं मन्यामहे ।
इत्थं चातुर्येण जल्पन्तं सार्थवाहं राजा तुर्यासने समुपावेशयत्, ततः कापट्यपरिपुष्टतां नीतां तां स्वकीयां राज्ञीं पञ्चमासने समुपावेशितवान्। तदनु राजा स्वयमेव तान् पञ्चापि सरसं भोज्यं भोजयित्वा स्वयमभुङ्क्त । ततस्तं योगिनं सत्कारपूर्वकं विससर्ज, सार्थवाहं चान्तिके समस्थापयत हार्दिकप्रेमाऽमृतरसनिर्भरण ।
श्रीसौधर्मबृहत्तपाख्यभुवनख्याताऽच्छगच्छाधिप श्रीराजेन्द्र- जगजयिष्णुचरणाम्भोजद्वयान्ते सदा । एतस्मिन् रचिते यतीन्द्रमुनिना गद्यप्रबन्धे द्वितीयः श्रीचम्पकमालिकीयचरितेप्रस्ताव एषोऽनघः ||१||
229