________________
द्वितीय-प्रस्तावः
___ श्री चम्पकमाला-चरित्रम् मत्तश्च तद्दर्शने मनागपि भयं मा कृथाः। यतस्त्वां जारं वा नाहं हनिष्यामि। स्वयमेव चेत्तं दर्शयिष्यस्यधुना तर्हि युवयोर्लेशतोऽपि मत्तो भीतिर्नो भविष्यति। अन्यथा विद्ययाहं प्रकटीकरिष्यामि चेद् युवामसंशयं निहनिष्याम्येवेति सत्यं विदाङ्करोतु भवती। __इति नृपोक्तिमाकर्ण्य भयपवनविध्वस्तगाढकौटिल्यमेघमाला राज्ञी गगनवत्सुप्रसन्ना सती वचनलक्षणतारागणमुद्द्योतयितुमलगत्-सर्वसह! स्वामिन्! आवयोरुग्रतरमसहनीयमपि मन्तुं क्षमस्व, क्रियतां च निगदिता वाक् सत्या, अर्थात्-"यत्प्रतिज्ञातवान् महीयान् भवान् युवां नैव हनिष्यामीति" तदवश्यमस्तु सत्यमेवेति निगद्य तत्कालमेव सङ्केतं तस्मै सार्थवाहाय दत्तवती। सोऽपि झटित्येव तत्र प्रकटीभूय राजानं विलोक्य सागरोऽगस्तिमुनिमिव वितत्रास। तत्रावसरे त्र्याहिकशीतज्वरजाताऽतिवेपथुमिव सर्वाङ्गे कम्प्रं दधानं तमालोक्य राजा न्यगादीत्-अरे! मा भैषीः, तवापराधं पुराऽहमक्षमिषि। तदा सार्थवाहो मनसि धैर्यमापद्य प्रथमं राजानं नमश्चक्रे। तदनु हर्षाम्बुधौ निमग्रतामुपनीतः सगद्गगिरा क्षोणीशं निगदितुमारेभे-प्रभो! मया दुराचारिशिरोमणिना यदीदृशमकार्यमकारि तर्हि सज्जनशिरोमणिना त्वया प्रभुणा तत्क्षन्तव्यमेव, यतः-"प्रतिकर्तुमशक्तस्य लोके क्षमणं भवत्येव तत्र किं चित्रम्?, यो हि तत्प्रतिक्रियां कर्तुमर्हति, स यदि कस्यचिदज्ञस्य महान्तमपि मन्तुं सहेत, तर्हि तत्समो क्षमी नान्यः कोऽपि। अन्यः क्षितिपतिस्तु मन्तुमन्तरापि क्रव्याद इव लोकान् कृतान्ताऽतिथीन् विधत्ते। भवांस्तु-असहनीयेऽप्यपराधे क्षमासागर इव मां लेशतोऽपि नाऽपीडयत्। तस्माद्यस्याऽल्पीयसी शक्तिर्भवति स एव वृश्चिक इवाऽन्यं पीडयति। ईदृशा दुर्जना यमुनासोदराकाराः पृथिव्यां भूयांसः सन्ति, परन्तु फणिराज इवाऽतुलसकलशक्तिमान् कृतागस्यपि जने क्रोधलेशमप्यकुर्वन् भवादृशस्तु विरल एव सम्भवति।
228