________________
श्री चम्पकमाला - चरित्रम्
द्वितीय-प्रस्तावः मद्वचनं मत्वा सत्वरं स्वकीयं जारं प्रकाशय ?, इति राज्ञ आदेशमाकर्ण्य मनसि साहसमानीय सकोपं निगदितुं लग्ना"स्वामिन्! किमहं कुलटास्मि, यज्जारं सेवेय?, ईदृशमयोग्यं किमात्थ ?, अहं सत्यमालपामि यन्मे प्राणाधारः प्राणप्रियस्त्वमेवाऽसि कोऽप्यन्यो नैवास्ति । अपि च मम रक्षणे विपदि वा शरणभूतस्त्वमेवाऽसि, किञ्च, मन्मनोऽभीष्टफलप्रदानात्त्वं चिन्तामणिकल्पोऽसि, मत्पोषणाच्च जीवितव्यमपि त्वमेवाऽसि । किमन्यन्निगदामि - कल्पतरुमिव सकलमनोरथपूरयितारं त्वां विमुच्य करीरमुष्ट्रीव पुरुषान्तरं कथङ्कारमहं स्वप्नेऽपि सेवेय, जात्वेवं नैव सम्भवतीति तत्त्वम् । किञ्चान्यापि कुलाङ्गना जारं मनसापि नैव भजते, तर्हि सत्कुलजाता महीयसस्ते कुलवधूर्भूत्वाऽहं पुरुषान्तरं सेवेयेति कदाचिदपि नैव घटते। तस्माद्विद्वच्छिरोमणे ! तव मुखादीदृगनृताऽसभ्यवचनोद्गारः कथं निःसरीसरीति ? |
तस्या ईदृशं वच आकर्ण्य राजा मनसि दध्यौ - अहो ! महाद्भुतमेतत्कीदृशीयं साहस भूमिः, मामेवाऽनृतभाषिणं प्रथयन्ती विलसन्तमपि दोषमपलपति। हंहो! स्त्रीचरित्रवेदिनां महतां वचनमियं स्वीयदुश्चरित्रं जानानापि सत्यापयति । अर्थात् स्त्रीचरित्रताया दुर्ज्ञेयतामेव सर्वथा व्यनक्तीयं तथा तद्वेदिनां विदुषां बन्धनमपि स्पष्टमेव सत्यापयति । कीदृगस्या वैदग्ध्यं साहसं च वर्तते। महदाश्चर्यमेतत्तथाप्यहं केनोपायेनैनां प्रतिबोध्य जारं प्रकटयिष्याम्येव, इति मनसि निर्धार्य तामित्याख्यद्राजा - अयि कामिनि! कदाचिदप्यहमनृतमेतन्नो जल्पामि, न वाऽसभ्यं कमपि भाषे । यतोऽहं गतेऽहनि प्रभातकालेऽत्रागतोऽहं तात्कालिकसुरतचिह्नलक्षितां त्वामद्राक्षम्। 'यभनं च पुरुषमन्तरा नैव सम्भाव्यते। तस्मात्प्रत्यक्षीकृतमर्थं मुधा किमपलपसि ?, अहं सत्यमेव वदामि। तस्मादात्मोपपर्ति दर्शय?, वृथा मां मा प्रतारय ?, 1. यभनं विषयसेवन
=
227