________________
द्वितीय-प्रस्तावः
श्री चम्पकमाला-चरित्रम् युक्तं मन्यस्व। अत्याग्रहात्क्षितिपतेरेतद्वचनमाकर्ण्य योग्येवं मानसे दध्यौ-हंहो? यां सूर्योऽपि द्रष्टुं नो शक्नोति तामेष कथङ्कारमपश्यत्। नूनमसौ भूजानिर्निशि गुसचर्यायामितस्ततः पर्यटन् कदाचित्तामदर्शत्, अत एव साम्प्रतं गुप्तभेदमेनं राज्ञा ज्ञातं वञ्चयेय चेद्वरं न स्यादिति विचिन्त्य मङ्क्ष जटाकलापतस्तामाविष्कृत्य विद्यया च प्रौढां विधाय द्वितीयासने समुपावेशयत्। तत्रावसरे तामप्यवक् राजा भद्रे! त्वमपि निजवेणी-स्थिताया लघुडिब्बिकायाः प्रेयांसं जारं प्रकटय?, यतः स्ववल्लभं क्षुधातुरं हित्वोत्तमानां जनानां भोजनकरणमनुचितं भवति। त्वां भजमानो योग्यसौ यथा योगाभ्यासस्य जलाञ्जलिमदात्तथैव जारं सेवमाना त्वमपि पातिव्रत्याय जलाञ्जलिमदिथाः। अत एव जारप्रकटने भर्तुः काऽपि भीतिस्त्वया नैव कार्या। यो दोषो द्वयोस्तुल्योऽस्ति तत्रैको द्वितीयं नो दूषयतीति न्यायमतम्। तथा च नैयायिकः
यत्रोभयोः समो दोषः, परिहारोऽपि तत्समः । नैकस्तत्र नियोक्तव्यस्तादृगर्थविचारणे ||२०|| व्याख्या - यत्रोभयोः समः-समानो दोषस्तत्र परिहारोऽपि तद्दोषवारणमपि तयोरुभयोः समान एव भवति, तत्रद्वयोर्मध्ये तादृगर्थविचारणे - तद्दोषपरिहारायैको नैव नियोक्तव्यः, उभयोः समत्वात्।
किञ्चातिकामुको योग्यसौ षड्भिर्लोचनैस्त्वामहर्निशं गोपायति, तथाप्यहं तदीयमेतद्वृत्तं यथाऽज्ञासिषम्, तथैव तावकीनमपि चरित्रमतिगुह्यमहं वेद्मि, अत एव भयं व्रीडां वा विहाय मद्वचनमादृत्य वेणीन्यस्तडिब्बिकास्थं जारं बहिष्कुरु। इत्थं नृपाग्रहेण भीतिमुज्झित्वा प्रथमं डिब्बिकातोऽतिहस्वं पुरुषं प्रकट्य पश्चाद्विद्यायोगेन यथोचितं तं कृत्वा तृतीय आसने समुपावेशयत्।
तदनन्तरं राजा राज्ञीमित्याचख्यौ-सुन्दरि! त्वमपि योगिनीव
226