________________
द्वितीय-प्रस्तावः
श्री चम्पकमाला-चरित्रम् माविरकरोत्। तदनु प्रथमं लघुकरणविद्यया लघीयसी कृतां तां विद्यान्तरेण तरुणीं विधाय मिष्टान्नादिकं भोजयित्वा ताम्बूलादिकं समर्प्य ततो रन्तुमारेभे। तया योगिन्या सह चिरं स्वैरं रमित्वा सुरतश्रमात्स योगी सुष्वाप। अतिगाढनिद्रामुपगते तस्मिन् योगिनि सा योगिन्यपि निजातिलम्बवेणीत एकामतिलघु डिब्बिकां निष्काश्य तन्मध्यतः सूर्यप्रभा पद्मिनीकोशमध्यादलिमिवातिलघु पुरुषं प्रकटीकृत्य विद्यया तं तरुणमतिसुन्दराकारं विधाय तेन सत्रा कामं रन्तुं प्रावर्त्तत। यथा कश्चिद् व्यालग्राही भोगिनं रमयित्वा कृतकुण्डलाकारमेनं करण्डके क्षिपति। तथा सा योगिनी 'चिरयभनात्कृतकृत्यतां नीता सती विद्यया तमुपपति लघु कृत्वा तस्यामेव डिब्बिकायां स्थापयित्वा तां वेण्यां धृतवती, तदनु भर्तुर्योगिनः पाचं गत्वा शिष्ये।
आश्चर्यवहं कौतुकमेतद्विलोकमानो राजा विस्मयमानश्चिन्तयामास अहो! यामेष योगी पुरुषान्तरमैथुनभिया विद्यायोगाद्रूपान्तरविधानेन शिरसि गुप्त्या रक्षति, सापि जारेण साकमेवं स्वैरं क्रीडति, तीतरासां कामिनीनां सतीत्वं को मतिमान् पुमान् श्रद्दधीत?, यतः सततं निजशरीरे विद्याप्रभावेण रूपान्तरं विधाय संरक्षिता कामिनी यदि जारं भजमाना प्रत्यक्षमैक्षि, अन्यासां तर्हि का वार्ता?, स्वपतिसन्निधावहनिशं या तिष्ठति सापि कामिनीयं भीतिमपहाय जारं भजते तर्हि कथमेनां निसर्गतो भीरुमिति जल्पन्ति? अथवा, त्रिभुवनविजित्वरकुसुमधन्वनः साहाय्येन निसर्गादेव युवतयो भयमुज्झन्ति। किमथवा "सुप्तो जनो मृतकल्पो जायते" इति किंवदन्त्या सुसं स्वपतिं मृतं जानाना निर्भीका सतीयं पुरुषान्तरं सेवते?, किञ्चेयं "कमपि पुरुषान्तरं मा सेवेत" इति धियैवासौ योगी जागरितः सन्नेतां विद्यामहिम्ना वशीकृत्य ततो लघीयसी 1. दीर्घ विषय सेवनात्
224