________________
श्री चम्पकमाला-चरित्रम्
द्वितीय-प्रस्तावः अस्या मनोवाञ्छितं फलं कल्पतराविव मयि पूरयत्यपि यदेषा पुरुषान्तरमसेवत, तदद्भुतं जज्ञे। अनुमीयते च यत्कामिनीषु दुःपूरतैव तिष्ठतीति। एषा यदि सती मन्येत तर्हि शरीरेऽस्याः सुरतचिह्नानि तात्कालिकानि कथङ्कारं दृश्यन्ते?, किञ्चैकाकिन्या भवनेऽत्र तिष्ठन्त्या अस्याः कपोलयोश्चुम्बनजन्यस्ताम्बूलरागो दन्तक्षतं च कथं जायेत?, तस्मादवश्यमेषा केनापि रसिकेन पुंसा साकमनवरतं रंरम्यते खलु। ईदृशीमसतीमप्यहं सती जानामि?, अहो! ममापि भीतिं विमुच्य यः पुमानत्राऽऽयाति सम्भोक्तुमेनां, सोऽप्यहमिव सिद्धाञ्जनादिविद्यो भविष्यति?, नो चेत्कथमत्र प्राणापहारिस्थले समागत्येदृशमकृत्यमाचरेत्कोऽपि। तेन जारेणापीदानीमत्रैव क्वचिदूर एव भाव्यम्, यस्मादेषा तत्कालकृतसम्भोगलक्षणा समीक्ष्यते। इत्थं वितर्कयन् विक्रमार्को राजा तज्जारपुरुषावलोकनाय तत्र सर्वत्र दृशं प्रसारयामास, परन्तु काष्ठमध्ये कीटो यथा केनापि नो लक्ष्यते, तथैव स्तम्भाग्रे स्थितं तं जारं नैवाऽद्राक्षीत्। तदनु निद्राभङ्गान्निमीलिताझ्या राज्याऽविदिताशय एव राजा निजस्त्रीप्रेमपयःपायिनं जारमार्जारं 'बुभुत्सुः स्वसदनमायातः।
पुना रात्रौ वेषं परावर्त्य नानाविद्यासम्पन्नश्छन्नतया पर्यटन्, एकं योगिनमालोकत। जीर्णतरकन्थाछन्नसाक्षात्कपटमूर्तिमिव भासमानं जीर्णकन्थाऽऽवृतगात्रं करधृतमनोहरानेकविधमिष्टान्नफलपुष्पादिकं योगिनमुदीक्ष्य मनसि जातशङ्को राजा विक्रमार्को गुप्तरीत्या तदनुपृष्ठमचालीत्। तत्र मठे गत्वा कमठ इवावृताशेषगात्रोऽतिष्ठदलक्षितः क्वापि राजा। तस्य योगिनश्चरित्रं जिज्ञासू राजा किलैकाग्रचित्तो यावदतिष्ठत्तावत्स योगी सर्वत्र प्रसृते तमःस्तोमे निजजटाकलापत एकां षोडशवर्षीयामतिसुन्दरी युवति
1. बोद्भुमिच्छावान्
223