________________
द्वितीय-प्रस्तावः
श्री चम्पकमाला-चरित्रम् पुनरसौ निशावसाने स्वमालय-माययौ। इत्थम् प्रतिरात्रं गमागमं कर्तुमलगदसौ सार्थवाहः। एवं नयनाऽऽरामिकेण रोपितः, सरसालापवारिदेन सिक्तः, सम्भोग-मनोरथेनातिगाढतां नीतस्तदुभयोः प्रेमवृक्षः क्रमशोऽवरीवृध्यत। निशानिशाकराविव तावुभावन्योऽन्यविरहाऽसहिष्णू क्षणमपि वियुक्तौ न शुशुभाते।
अथ तस्याः कथनात्सार्थवाहो विश्वस्तपुरुषैरात्मगृहमारभ्य तत्सौधीयमूलस्तम्भावधिकां महती सुरङ्गामचीखनत्। तत्र भित्तौ कृतद्वारतः समाकृष्याऽऽनीय तन्मध्यभागे समापिपत्। तत्परितः सोपानानि कारितानि, स्तम्भस्य मूलद्वारमध्यभागे शयनस्थानं सुन्दरं कारयित्वा गृहमध्यभागे (स्तम्भाग्रभागे) कोऽपि नो जानीयादीदृशं द्वारमकारि। "द्रव्येण वशीकृताः कारवस्तस्य सार्थवाहस्यादेशतः सर्वमेतत्तूर्णमेव गुप्त्या विदधिरे। द्रव्येण किं न जायते?, दुष्करमपि सुकरमेव जायते।" तदनु वृक्षोपरि भ्रमर इव स्तम्भोपरि निवसन् सार्थवाहस्तत्र गृहरूपे सरसि गत्वा राजहंसीमिव तां विक्रमोढां नित्यं भोक्तुमलगत्।
अथैकदा प्रभातेऽकस्मादेव राजा विक्रमार्कस्तत्रागात्, तत्कालविहितसम्भोगचिह्नलक्षितां तामवलोक्य मनसि राजाऽचिन्तयत्-अहो! किरातीवाऽसंयतां वेणी कथमेषा बिभर्ति, तथा वानराणां क्रीडाभूमिरिवाऽस्याः पत्रावली कथं छिन्ना दरीदृश्यते?, तथा प्रफुल्लितयोर्गल्लयोस्ताम्बूलरागाङ्कः कथमजायत, तथा सुरताऽऽयाससमुद्भूतप्रभूतस्वेदबिन्दुजालविभूषिताङ्गा नैशिकजागरणजातरक्ततरलोचनयुगला एवमशेषच्युतताम्बूलरागसन्दष्टाऽधरपल्लवा कथङ्कारमेषा लक्ष्यते? इति। हंहो! इहैकस्तम्भप्रासादे पुरुषान्तरप्रवेशाऽसम्भवे सति स्थिताप्येषा कथमन्यपुरुषेण सम्भुक्ता जाता, इत्थं सुरक्षितापि खण्डितशीला यदेषा कामकिङ्करी जज्ञे, अत एतां धिगस्तु।
222