________________
श्री चम्पकमाला-चरित्रम्
द्वितीय-प्रस्तावः राज्या साधं स सार्थवाहः कामशास्त्रोक्तानेकविधिना रन्तुमारेभे। असौ बलीयान् कामकलाकोविदः सार्थवाहस्तां तथाऽरीरमत यथा सा ततः प्रभृति नृपतौ स्वपतौ नीरागिणीभूय तमेवमालपितुं लना - सार्थेश! तवाऽमुना सकृत्समागमेनैव माञ्जिष्ठराग इव त्वय्यनुरागिणी जातास्मि। यथा त्वमालादयामासिथ मे मनस्तथा पुरा कदापि राजापि नाऽऽह्लादयत्। यथा खलु विधुन्तुदेन ग्रस्तोऽमृतांशुः क्षीणतामुपैति तथा त्वदीयवियोगेन दुर्बलीकृताहं क्षणमपि तं सोढुं नैव शक्ष्यामि। स्वामिन्! अत एव मयि प्रसद्य कृपां चानीय तूर्णमेव पुनदर्शनं दातव्यम्। त्वदेकमनसं मामनाथां मा विस्मार्षीः, इत्येव शतशः साञ्जलिस्त्वां प्रार्थये। नृपोऽत्र कदाचित् पञ्चमे दिवसे समायाति, अतस्तदीयभीत्या मामकं प्रेम मुधा मा त्याक्षीः। इति तद्भाषितमङ्गीकृत्य स्वसदनं जिगमिषुरश्रुपूर्णदृशा तयाऽनुगतः सार्थवाहस्तद्गवाक्षोपर्यायातः। तदनु पुरोक्तसङ्केतमधस्तात्स्थितमित्रं प्रत्यकरोत्। तच्छ्रुत्वा सोऽप्याशु पुच्छबद्धदृढतररज्जुकां चन्दनगोधां तत्सौधोपर्यारोहयत्पुरेव, ततस्तत्पुच्छबद्धरज्जु गृहीत्वा सार्थवाहो नीचैरुत्तीर्य चेतसि भुक्तामतिवल्लभां तामेव रमणीं ध्यायन् सख्या सत्रा निजसदनमायातः।
अथ सार्थवाहे निर्गते सति तद्विरहमसहमाना सा राजपत्नी कपिकच्छुस्पृष्टेव सर्वाङ्गसञ्जातकण्डूतिव्यथाकुला लेशतोऽपि शान्तिं नाप्नोत्। तस्या मनःकानने सार्थवाहवियोगाऽग्रौ जाज्वल्यमानतामुपगते चिन्तारूपया तच्छिखावल्या तदीयसुखरूपो महातरुर्भस्मसादजायत। तत्सार्थवाहसमागमतृष्णोद्भूतादभ्रदुःखव्यथिताऽत एव यूथभ्रष्टा हरिणीव महता कष्टेन दिवसमपि वर्षमिव गमयितुं लग्ना सा राज्ञी। तत्पश्चात्स सार्थवाहो नसि न्यस्तरज्जुको बलीवर्द इव तत्प्रेमपाशाकृष्टः पुना रात्रौ तस्या अभ्याशमागात्। तदनु यथा निज प्रेयस्यारमते तथा तया साकमशङ्कमशेषां रजनीमरंस्त।
221