________________
द्वितीय-प्रस्तावः
श्री चम्पकमाला-चरित्रम् तस्या इत्थमुक्तिमाकर्ण्य सार्थवाहोऽवदत्-सुन्दरि! लोके हि कामिनीजनकृतं प्रेम पर्वताग्रान्निर्गच्छतो जलप्रवाहादपि चपलं भवति। यतस्ताः क्षणमनुरागिण्यो भवन्त्योऽपि क्षणादेव विमुख्यो भवन्त्यो महान्तमेवानर्थमापादयन्ति। अपि च रक्तास्ता द्रव्यमात्रमपहरन्ति, विरक्तास्तु प्राणानपि घातयन्ति। एवं सति तत्कृते प्राणापहारि किलेदृशमकृत्यं को नाम मतिमान् करोति, कोऽपि नेत्यर्थः। किञ्च कामिनीचरित्रं न केनापि ज्ञातुं शक्यते, लोकोक्तिरिय सत्या। तथा चोक्तम् - ____नो भवन्ति, सर्वे पुरुषा अपि गाढस्नेहा नैव जायन्ते। यस्मादेकजातीयेष्वपि सांसर्गिकमन्तरं प्रत्यक्षमेव लक्ष्यते। यतःआलिङ्गत्यन्यमन्यं रमयति वचसा वीक्षते चान्यमन्यं, रोदित्यन्यस्य हेतोः कलयति शपथैरन्यमन्यं वृणीते । शेते चान्येन सार्धं शयनमुपगता चिन्तयत्यन्यमन्यं, स्त्री वामेयं प्रसिद्धा जगति बहुमता केन धृष्टेन सृष्टा ||१५||
व्याख्या - या स्त्री अन्यं = पुरुषमालिङ्गति = श्लिष्यति, पुनरन्यमपरं वचसा = मधुरालापेन रमयति = क्रीडयति, च पुनरन्यमन्यं वीक्षते = विलोकते, अन्यस्य हेतोरन्येनैव हेतुना रोदिति = क्रन्दति, शपथैस्तत्करणेनाऽन्यं कलयति = ब्रूते, अन्यं च वृणीते= स्वीकुरुते, अन्येन च साधं शेते = स्वपिति, शयनमुपगता = शय्यां प्राता सती याऽन्यमन्यमेव चिन्तयति = ध्यायति, सेयं वामा = स्त्री प्रतिकूला जगति = लोके प्रसिद्धा बहुमता = सर्वैरादृता केन धृष्टेन = विवेकविकलेन पुंसा सृष्टा = निरमायीति नो विद्मः!।
एतच्छ्रुत्वा राज्ञी जगौ - सज्जन! भवदुक्तिर्यद्यपि साधीयसी
218