________________
श्री चम्पकमाला-चरित्रम्
द्वितीय-प्रस्तावः विद्यते, तथापि सर्वाः स्त्रिय एकाकारा नैव सन्ति, न वा पुरुषा एव सर्वे समाना जायन्ते, कियन्तश्च पुरुषा वज्रसोदरकठोरतरहृदया दृश्यन्ते, अमी खलु मन्तुमन्तरैव स्वीयप्राणप्रियाप्राणापहर्तारो भवन्ति। कियत्यः स्त्रियोऽपि स्वप्राणप्रियस्य वियोगं सोढुमसोढाः सत्यो भवन्ति। यतश्च जाज्वल्यमानमहाज्वालायां चितायां पतित्वा कृतभस्मसादात्मनः कियत्यः स्त्रियो जगति दरीदृश्यन्ते। अतः सर्वाः स्त्रियस्तादृश्यः प्रेमयुक्ताः।
वाजिवारणलोहानां, काष्ठपाषाणवाससाम् । नारीपुरुषतोयानां, जायते महदन्तरम् ||१६||
अतः सङ्कल्पविकल्पादिकं विहाय मत्प्रार्थनं सफलीक्रियताम्। कान्त! कियन्निगदामि - त्वदायत्तजीवितामनङ्गव्यथितामनाथामतिदीनां मां भजस्व, विलम्बं मा कार्षीः। इत्थं तस्या प्रेमामृतभरं भाषणं श्रुत्वा सार्थवाहस्यापि मनस्तस्यामनुरागि जज्ञे। यतः"नीरसस्यातिकठोरस्यापि पुंसो मनांसि कामिन्यो लीलयैव भिन्दन्ति, तर्हि ये सरसाः कामशास्त्रवेत्तारस्तेषां मनो भेदने किमाश्चर्यम्। तदनु समुज्झितशिष्टजनपद्धतिर्विवेकादिसमुज्ज्वलगुणत्यक्तहृदयः स सार्थवाहः सादरं तां राज्ञी निजक्रोड़े समारोपितवान्। उक्तं च -
जीवव्योम्नि ज्ञानभानुस्तावदुद्द्योततेतमाम् । कान्ताकादम्बिनी यावद्रागाऽभैःस्थगयेन्न तम् ||१७||
व्याख्या - यावत्कान्ताकादम्बिनी = युवतिरूपा मेघमाला रागात्मकैरभैः = पयोदैर्ज्ञानात्मकं सूर्यं न स्थगयेत् = नाऽऽवृणोति, तावदेव जीवात्मके गगने ज्ञानलक्षणः सूर्य उद्द्योततेतमाम् = प्रकाशतेतमाम्। अर्थात् - कामिनीरूपया मेघमालया रागात्मकैः
219