________________
श्री चम्पकमाला-चरित्रम्
द्वितीय-प्रस्तावः नितरामस्मि, अतस्तद्भयं मनागपि नैव गणयामि। किञ्च यो हि भयादिना विह्वलतामुपैति स एव पुमानात्मरक्षणाय निकटवर्तिनोऽपि सज्जनस्य सुस्नेहं जहाति, यः पुनः शौर्यशाली विक्रमी वर्तते स तु सज्जनकृतस्नेहविवर्धनाय 'निजासूनपि तृणाय मनुते। उक्तञ्च
भवत्कृते खञ्जनमञ्जुलाक्षि!2, शिरो मदीयं यदि याति यातु ।
दशाननेनापि दशाननानि, नीतानि नाशं जनकात्मजार्थम् ||१४|| व्याख्या - खञ्जनस्य = खञ्जरीटस्येव मझुलेऽक्षिणी यस्यास्तत्संबोधने हे खञ्जनमञ्जुलाक्षि! भवत्कृते = तव हेतोर्यदि मदीयं = मामकं शिरो मस्तकं याति = नश्यति तर्हि यातु = नश्यतु, नाहं ततो लेशतोऽपि खिद्ये। यतः दशाननेन - रावणेनापि जनकात्मजार्थ = सीतायाः कृते दशाऽऽननानि - दशापि शिरांसि नाशं नीतानि तर्हि तव हेतोरेकस्य मे शिरसो नाशे किमाश्चर्यमिति भावः।
यद्यपि प्राणिनां लोकान्तरेऽपि प्राणा दुरापाः कीर्तिताः, परन्तु तेभ्योऽपि सता सत्रा मैत्री सर्वथैव दुर्लभास्ति, अत एव निजप्राणरक्षणकृते सज्जनस्य प्रेम को नाम धीमान् पुमान् उज्झेत्, कोऽपि नेत्यर्थः। राजा तु जात्वप्यावयोरेतत्कृत्यं नैव ज्ञातुं शक्नुयात्। जानीयाच्चेदथापि कदाचित्क्षमेत, परन्तु भक्षयितुमुद्यतोऽसौ पुष्पधन्वा हताशां मामिदानीमेव धक्ष्येदर्थान्मृति प्रापयेत्तर्हि किमहं कुर्याम्। अतः सुकृतिन्! वणिग्जातीयस्वाभाविकी भीतिं जहीहि, अरं मां मदनातुरां बाढं मर्दय, मामकं दुःखमपाकुरुष्व, मय्यनुकम्पामानय। 1. असून्-प्राणान् , 2. खंजन पक्षी जैसी नेत्रवाली
217