________________
द्वितीय-प्रस्तावः
__श्री चम्पकमाला-चरित्रम् व्याख्या - शरीरे = देहे स्वस्थावस्थे = नीरोगे सत्येव सद्भिः = पण्डितैरौषधं निषिद्धं = न्यषेधि, विपर्यये = व्यत्यासे रोगसद्भावे तु तैरेव = पण्डितैरेव तदपि =औषधमपि आद्रियते = सेव्यते। अन्यदपि श्रूयताम् - शास्त्रे खलु सर्वत्रोत्सर्गाऽपवादौ दर्शितौ स्तः, इति हेतोरेतस्मिन् प्रस्तुतेऽर्थे सार्थेश! त्वयाप्यपवादमार्ग एवाऽऽलम्ब्यताम्। तथा सति कापि क्षतिर्न स्यात्
किञ्च, यः पुमान् कामुकीं पञ्चेषुपरिपीडितां प्रीत्या पौनःपुन्येन रन्तुमभ्यर्थयन्तीं स्वयमुपगतवती युवतिमुपेक्षते, तां नो रमयतीति, स पुमान् महापापीयान् भवति तन्मुखावलोकनादपि लोकानामघ उत्पद्यते, चाण्डालतामेवाधिगच्छति सः। इत्यादि नानेतिहासस्मृतिनीतिवाक्यानि जानता त्वया कथमहं वञ्चये, यत्परदारागमनं नो कार्यमिति। सार्थेश! यदूचिवान् भवान् प्रेयान् परलोकयातनाभयान्नेदृशमकार्यमनुतिष्ठाम्यहमित्यपि शोभनं नो पश्यामि, यदहं पारलौकिकक्लेशापेक्षया तावकवियोगजं दुःखमेवाऽसह्यं मन्ये। यतः पारलौकिकं तददृश्यं लघीयं च, इतोऽपि भवद्विरहजन्यमेव दुःखं गुरुतरं सोढुमशक्यं चास्तीति सत्यमहं निगदामि। भवान्तरे यद्भविष्यति तत्तु सुखेन सहिष्ये, परमधुना त्वदीयविरहमहं कथमपि सोढुं नैव प्रभवामि। प्राणेश! प्रथमं परलोक एव सन्दिग्धो वर्त्तते, तर्हि तत्र जायमानं दुःखं को नाम मतिमान् श्रद्दधीत?, इत्थं परलोकस्य सन्दिग्धत्वे सति तत्रत्या यातनापि सन्दिग्धैव मन्तव्या। अत एव संशयितपारलौकिकक्लेशभिया को मतिमान् पुमान् इहत्यं प्रत्यक्षमीदृशं सुखं जह्यात्?, कोऽपि नेत्यर्थः। तदप्यगादीः प्रत्यक्षमिहत्यं राजकीयं भयमिति, तत्तु द्वयोरपि समानमेवास्ति, यदावयोरीदृशमन्यायकर्म राजा ज्ञास्यति चेदावामेव हनिष्यति, नोकं त्वामेव। अहं जाने-यत्ते मय्यनुरागः स्वल्पीयानेवाऽस्तीति मनसि राजभीतिं धत्से, अहं तु त्वय्यनुरागिणी
216