________________
श्री चम्पकमाला-चरित्रम्
द्वितीय-प्रस्तावः तडिल्लतामिव देदीप्यमानां पञ्चेषु बाणजालनितान्तपरिपीडितामतिविह्वलां दुःस्थितामेकाकिनी मां भजस्व, गाढमालिङ्गय सुखिनी कुरुष्वाऽलं विलम्बं मा कृथाः। यतः "यावत्त्वं मया सत्रा नो रंस्यसे तावदहं स्वास्थ्यं नैव लप्स्ये," इति सत्यमवेहि। यथा खलु तृषाकुलो जनो यथेष्टं वारि पीत्वैव तां शमयति, बुभुक्षितो जनः खादित्वैव स्वस्थीभवति नान्यथा। तद्वदेव त्वदुपभुक्ता सत्येवाहं स्वस्था भवितुमर्हामि, इतरथा गतासुरेव भविष्यामि। स्वास्थ्ये सत्येव जनो नीतिवाक्यानि चिन्तयति, पण्डितोक्तिं श्रद्दधाति। वैपरीत्ये तु निषिद्धमप्याचरति, अवाच्यमपि जल्पति, कर्तव्याऽकर्तव्ये नैव जानाति। यदुक्तम् -
निषिद्धमप्याचरणीयमापदि, क्रियां सती नाऽवति यत्र सर्वथा ।
घनाम्बुना राजपथेऽतिपिच्छले,
क्वचिबुधेरप्यपथेन गम्यते ||१२|| व्याख्या - यत्र = यस्यामापदि समागताऽऽपत्तिकाले जनः सर्वथा केनापि रूपेण सतीं विद्यमानामुचितां क्रियां स्थिति मर्यादां नावति = अवितुं = रक्षितुं न शक्नोति, तत्रापदि तेन जनेन निषिद्धं = लोकविरुद्धमप्याचरणीयमनुष्ठेयमिति यावत्। तदेव दृष्टान्तेन दृढयन्नाह - घनाम्बुना = वृष्ट्याधिक्येन राजपथे = राजमार्गेऽतिपिच्छले क्वचिबुधैरपि निरुपायत्वादपथेन गम्यते। अतः- आवयोरपि निरुपायतया निषिद्धाचरणं नो दूषणं, किन्तु भूषणमेवेति तत्त्वम्। तथा च -
स्वस्थावस्थे शरीरे हि, निषिद्धं सद्भिरौषधम् ।
विपर्यये तु तैरेव, तदष्याद्रियते ध्रुवम् ||१३|| 1. अतिपिच्छले = अतीव चिकना मार्ग-फिसलने वाला मार्ग
215