________________
द्वितीय-प्रस्तावः
श्री चम्पकमाला-चरित्रम् स्मरता पुंसा परकामिनी नोपभुज्यते जात्वपि।" त्वं तु राजदाराः स्थ, तर्हि कथं मयोपभुज्येथाः?, यदि परलोकविरुद्ध विषये शिष्टा न प्रवर्तन्ते तर्हि लोकद्वयविरुद्धे भवत्प्रार्थिते कृत्ये कथमहं प्रवर्तेय? यद्यपि भवत्याः कथनेनानुरागेण च परलोकभीतिमदृश्यत्वान्न गणये, परन्तु यदेतल्लौकिकं दरीदृश्यते प्रत्यक्षं राजभयं तत्कथं तिरस्कुर्याम्?, येन राज्ञाऽन्यायकर्तारो महान्तोऽपि जना बध्यन्ते, स न्यायनिष्ठो राजा स्वदाराभोक्तारं पुमांसं कथङ्कारं नो हन्यात्?, हिंस्यादेव। महान्तः पुरुषा मित्रादेरपीदृशं दोषं जात्वपि फणीन्द्रा इव न सहन्ते, कदाचित्सज्जना मैत्रिकमपराधं क्षमन्तेऽपि राजानः सर्पाश्च कस्याप्यपराधं नैव क्षमन्ते, सद्य एव तदुचितं दण्डं विदधत्येव। अतः-अकालमृत्युनिदानं त्वत्सम्भोगं मामकं मनः कथमिच्छेत्?, किमज्ञा अपि स्तनन्धयास्तदशनपरिपाकफलमजानन्तः किम्पाकफलमश्नन्ति?, नैवाऽश्नन्ति। अतोऽहं सादरं त्वां प्रार्थये सुन्दरि! मां परावर्तितुमनुजानीहि। यतोऽहमेतस्मात्वत्प्रेमपाशान्मुक्तो भवन् सुखेन जीवितुं शक्नुयाम्। यदुक्तम् -
तावदेव सुखं यावन्न कोऽपि क्रियते प्रियः, प्रिये तु विहिते सद्यो, दुःखेष्वात्मा नियोज्यते||११||
व्याख्या - यावत्कालं केनापि पुंसा कोऽपि प्रियो मित्रं न क्रियते = विधीयते, तावदेव = तावन्तं कालमेव तस्य पुंसः सुखं श्रेयो विद्यते। तु = पुनः प्रिये विहिते कृते सति सद्यस्तत्कालमेवाऽऽत्मा दुःखेषु = कष्टेषु नियोज्यते = स्थाप्यते। अर्थादन्यस्मिन्प्रीतिं कुर्वता पुंसा दृढतररज्जुबद्धेन पशुनेव केवलं दुःखमेव भुज्यते। __इति सार्थवाहेन निगदितं श्रुत्वा राज्ञी जगाद-प्रियतम! त्वं मदीयदुःखजिहासयाऽत्रायातोऽसि, तर्हि तडिद्गौरवर्णा तारुण्यपूर्णा
214