________________
श्री चम्पकमाला-चरित्रम्
द्वितीय-प्रस्तावः गृहीत्वा पदाङ्गुष्ठमङ्गुलीश्च डोरिकामध्यभागकृतग्रन्थिषु संस्थाप्य वंशाग्रे महानट इव दुरारोहमपि तदेकस्तम्भीयसौधमारुह्य गवाक्षे निर्भयं तस्थिवान्। तत्पश्चात्तदीयसखा फूत्कारसङ्केतेन तां चन्दनगोधामध आनीय घटे संस्थाप्य तत्रैव क्वचिद्गुसस्थानेऽतिष्ठत्।
तत्रावसरे महता दीपकेन प्रद्योतमाने भवने तामेकाकिनीमालोक्य तस्या मनसि प्रविशन्निवान्तः प्राविशत्। पुरा दृष्टत्वात्सापि राज्ञी मनसि महाहर्ष दधाना पुलकितगात्रा सती तत्कालमुत्थाय तदग्रमागत्य कमलदलैस्तमर्चयन्तीव भृशं कटाक्षं पातयन्ती स्मेरानना तमेवमपृच्छत्-प्राणप्रिय! स्वागतं भवतामभूत्?, अहं तु तावकागमनमेव काङ्क्षन्ती किलास्मि। एहि, निद्रातुमस्यां शय्यायां तिष्ठ, मनसी सङ्कल्पविकल्पो जहीहि। सत्वरमिदं शयनीयं पुनीहि, चिरकालिकं प्रेमतरुमेनं सफलीकुरुष्व। तदनु तत्र शयनीये समुपविष्टं सार्थवाहं सुधाधिकमधुरया गिरा सा निगदितुं लनाप्राणेश्वर! यद्दिने यान्तमनेन पथा त्वामहमपश्यं तत्क्षणादनङ्गो मां नितरां बाधते, तां बाधामगदनीयामेवाऽवेहि। मदनशरजालविद्धाऽशेषाऽवयवा त्वामेव कामयमाना न स्वपिमि, नो खादामि, न वा पिबामि, केवलं तावकसमागमाऽमृतपिपासैव वरीवृधीति। एतस्मादेव मनसि मां संस्मृत्य त्वमधुनाऽत्रागतोऽसि, तत्साध्वकारि। यदेतद्भवनं राजभीत्यास्पदं दुरापमप्यस्ति तथापि तत्सर्व विहाय यत्कृपां विधाय समागतोऽस्त्यत्र तदतीवश्रेयस्करमजायत। यथा त्वमत्रागत्य मामकी प्रार्थनां फलवतीमकृथास्तथा त्वमधुना द्रुततरं गाढं मामाश्लिष्य यौवनं च मे सफलं नय?
तदनु सार्थवाहस्तामेवमवोचत्-सुन्दरि! तद्दिने नागवल्लीवीटिकायां न्यस्तश्लोकद्वयाऽभिप्रायं विदित्वा त्वच्चिन्तापहाराय समायातोऽस्मि तवान्तिके, परन्तु त्वयका सत्रा विषयक्रीडनं कर्तुमधुनाऽत्र नागतोऽस्मि। यतः-"धर्मशास्त्रीयनैतिकवचनानि
213