________________
द्वितीय-प्रस्तावः
श्री चम्पकमाला-चरित्रम् तदीयदुःखेन खिद्यमानः स सखा तमेवमगदत्-सखे! अवज्ञातः कश्चिज्जनो यथा जल्पेत्तथा त्वमेतत्सखेदं जजल्पिथ। एतच्च वृद्धान् सेवमानस्य ममासाध्यं कष्टसाध्यं वा नैवाऽस्ति। मयैकदा पुरा वृद्धमुखादश्रावि-यत्खलु महाबलीयान् भवति चन्दनगोधा, असावगम्यारोहणसदनेऽप्यनायासेन झटित्येवाऽऽरोहति खलु। अत आशु कुतश्चित्स आनीयताम्। यदसौ जलेन वियुक्तं मीनमिव तया कामिन्या वियुक्तं त्वामतिदुखिनं तस्या अन्तिकमचिरेणैव नेष्यति। अत एव वातप्रणुन्नो दहनो यथाऽऽशु काननं दहति, तथा हे मित्र! त्वत्प्रेमप्रेरितोऽहं सर्वमेतदनायासेन करिष्यामि। यस्मादधुनैव तावकीमेनां चिन्तामपाहरामि। यतः-"बलवन्तं मतिमन्तमपि पुमांसं समुत्पन्ना चिन्ता चितेव निर्दहतितमाम्।" यदाह - चिता-चिन्ता-समायोगे, चिन्तेवास्ति गरीयसी । चिता दहति निर्जीवं, सजीवं स्फुटमेव सा ||१०||
व्याख्या - चिताचिन्तयोरुभयोर्योगे चिन्तैव गरीयसी = क्लेशाधिक्यप्रदानादतिगुर्वी विद्यते। यतः-चिता निर्जीवम्-मृतं दहति, चिन्ता तु जीवन्तमेव प्राणिनं हठाइहतीति।
__ इत्थं तं सार्थवाहमाश्चास्य स्वयं तदैव कमपि ग्रामं गत्वा पूर्वपरिचितचौरपार्धात्सुशिक्षितं चन्दनगोधामादाय क्वचित्कलशे निधाय सार्थवाहेन सार्धमेकैकहस्तोपरिदत्तग्रन्थिकां डोरिकां महीयसी द्रढीयसी च गृहीत्वा तस्यामेव रजन्यामेकस्तम्भभवन समीपमायातः। तत्रागत्य घटाच्चन्दनगोधां निष्काश्य तत्कट्यां तां डोरिकां बद्ध्वा वंशदण्डोपर्यारोप्य तामूर्ध्वमुदक्षिपत्। सापि तत्क्षणमेव चटन्ती सती तत्सौधीयवातायने गाढमाश्लिष्य तस्थौ। तदनु स सार्थवाहस्तेन सख्या प्रेरित उभाभ्यां कराभ्यां डोरिकां
212