SearchBrowseAboutContactDonate
Page Preview
Page 222
Loading...
Download File
Download File
Page Text
________________ श्री चम्पकमाला-चरित्रम् द्वितीय-प्रस्तावः वाचयित्वा तदीयमनोगतमाशयं जानानः सार्थवाहस्तया सत्रा सङ्गन्तुमत्यौत्सुक्यं बिभरयामास। एवं ध्यातवांश्च मानसे अहो! अत्याश्चर्यजनक रतेरपि रूपाऽखर्वगर्वापहारि किलैतस्या रूपमस्ति। लावण्यमप्यस्या लोकोत्तरं पश्यामि। तथैवाऽस्या अद्भुतं दाक्षिण्यमसाधारणमेव विभाति। मय्यनुरागमप्येषा कमप्यगदनीयमेव धत्ते। एवमन्योक्तिलेखनकथनकौशल्यमप्यलौकिकमेवाऽस्त्यस्याः। इत्थं तां राज्ञीमालिङ्गितुं यथेष्टमालोकितुं समुत्सुकस्तस्यामत्यन्तानुरागी सार्थवाहश्चिन्तयति-नूनमेषा मय्यनुरागिणी प्रतिभाति, अतो ह्यस्या उपेक्षणं ममोचितं नो प्रतिभाति। सत्युपेक्षणे मदनशरजालपरिपीडिताङ्गी, हताशा सतीयं राज्ञी चेदमरिष्यत्तर्हि तद्धत्या ममैवालगिष्यदतो मया येन केनोपायेन तत्सन्निधौ गन्तव्यम्। तत्र गत्वा यदुचितं द्रक्ष्यामि तथा करिष्यामि। इति विचिन्तयनिजसदनमागात्। तत्र कञ्चिदेकं मतिमन्तं प्रेमपात्रं सखायं सर्वमेतदवोचत्मित्र! एतत्कार्यमतीवदुःसाध्यमस्ति। यस्मादेकस्तम्भे सदने स्थितायास्तस्याः संयोगः सुकरो नास्ति, किन्त्वतीव दुष्करः। यद्यहं तत्र नो गच्छेयम्, तर्हि साऽवश्यमेव पञ्चबाणपारवश्यमिता राज्ञी मृतिं लप्स्यते, अतो मया किं करणीयमधुना, एकत्र विषमा नदी परत्र वा व्याघ्रोऽस्तीति न्यायो मे समुपस्थितः। अथवा भवतः साहाय्येन दुष्करमपि कृत्यं सौलभ्येनाशु सेत्स्यतीति मन्ये। यस्मादवरोधरक्षितृकञ्चुकिनः प्रभावेण कौलिकोऽपि राजकन्यामसेवत खलु, किञ्च धूलिकणिकापि वायोः संयोगात्पर्वतस्यापि शिखरमारोहति। परेषां साहाय्यतः खल्वसाध्यमपि सुकरतामभ्युपैति, मणिर्यथैकपदमपि गन्तुं नेष्टे, तथापि परकीयसाहाय्येनागम्यमपि समुपैति। तथैतन्मत्कार्यमसाध्यमपि मतिमतामग्रेसरस्य ते साहाय्येन झटित्येव सेत्स्यति। इति सार्थवाहोक्तमाकलय्य 211
SR No.022564
Book TitleCharitra Saptakam
Original Sutra AuthorN/A
AuthorJayanandvijay
PublisherGuru Ramchandra Prakashan Samiti
Publication Year
Total Pages370
LanguageSanskrit
ClassificationBook_Devnagari
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy