________________
द्वितीय-प्रस्तावः
श्री चम्पकमाला-चरित्रम् हताशाऽन्तसंयोगं तदा सा लप्स्यते ध्रुवम् ||२||
व्याख्या - भास्वन्! = हे सूर्य! चेद्यदि तदभाग्यतः = तस्या अभाग्यतः = कर्मदोषात्, भवान् तदुपेक्षाम् = तस्या उपेक्षाम् कर्ता = करिष्यति, अर्थान्नागमिष्यति, तदा = तर्हि, अवश्यमेव हताशा = विफलेच्छा सती सा भृङ्गी, अन्तसंयोगम् = कृतान्तसंपर्कम् लप्स्यते, अर्थान्मरिष्यत्येव तत्र मनागपि संशयं मा कृथाः। पक्षे मदीयाऽभाग्ययोगान्मदुपेक्षां विधाय नागमिष्यसि चेत्तर्हि नष्टाशाऽवश्यमेव मरिष्यामीति विदित्वा मयि कृपां नीत्वाऽवश्यमत्र त्वमायाहि। ___पश्चादेतद्दलं पर्णवीटिकान्तरितं विधाय गवाक्षस्था तदागमनकाक्षिणी सा राज्ञी पश्चात्तत्रागतस्य सार्थवाहस्याङ्केऽन्तय॑स्तदलां तां पर्णवीटिकां क्षिप्तवती। तदा गगनात्पतितां तामालोक्य किमेनां काचिद्देवताऽपातयदिति धिया सार्थवाहो निजां दृशमुपर्यकरोत्। तत्रावसरेऽधः पश्यन्तीं गवाक्षस्थां तामुद्वीक्ष्य तस्या रूपलावण्यतारुण्यावलोकनेन प्रमत्तो महाछाग इव गतव्रीडः स निमेषशून्यया दृशा तामवलोकितुं लग्नो, यस्मादीदृशां कामिनां लोकलज्जा राजभीतिर्वा कथमुत्पद्येत? तामेवावलोकमानः स मनस्येवं ध्यातुमलगत्, नूनमेषा राज्ञी स्निग्धया दृशा मां पश्यन्ती मानसं रागं दर्शयति, यस्मादान्तररागमन्तरा काचिदप्यबला कमप्येवं नैवाऽवलोकते। जाने साक्षान्मूर्तिमती प्रीतिमेवैषा पर्णवीटिकामिमां मामार्पिपन्नु?, अत एवैतदन्तः किमस्तीति वीटिकामुद्घाट्य मया सम्यगवलोकनीयम्। यतः "रागिजनार्पितं साधारणमपि बहुमानाहं जायते।" इत्यवगत्य तामुन्मुच्य तदन्तर्मूर्तिमतो मदनस्याऽऽदेशमिव मनोरमे पत्रे करकमलाङ्कितं श्लोकद्वयमद्राक्षीत्सार्थवाहः। तस्या मानसिकरागनिधेर्बीजकल्पं श्लोकद्वयं
210