________________
श्री चम्पकमाला-चरित्रम्
द्वितीय-प्रस्तावः विद्यामर्पय, यया बाहुद्वयं प्रसार्य शीघ्रं निजमनोरथीकृतमेनमालिङ्गय सुखिनी भवानि। यथाऽमुष्य दर्शनादुभे नयने साफल्यमयाञ्चक्राते। तथैतदङ्गस्पर्शादङ्गमपि मामकं कदा सफलीभविष्यति?, इत्थं विचिन्तयन्ती तमेव पुमांसमेकाग्रमनसा पश्यन्ती सा राज्ञी तस्मिन्नलक्ष्यतामुपगतेऽपि यन्मार्गेण गतवान्, तमेव पन्थानं विलक्षभावेन विलोकितुं लगा। पुनः क्षणान्तरादेव सावधानहृदया सा मनस्येवं चिन्तयितुं लगा-यदहमेतत्पुंसा योगमन्तरा क्षणमपि जीवितुं नैव शक्नोमि, अत एव मदीयजीवितधारकीभूतस्यामुष्य पुंसो गाढाश्लेषं यथाऽऽप्नुयां तथा मया यतितव्यम्। यतः "स्वप्राणधारणाय यः खल्वालस्यं विधत्ते, विलम्बयति वा स प्रान्ते महाकष्टमाप्नोति।" अतो ममैतदर्थसाधने विलम्बकरणमनर्थकार्येव स्यात्। इत्यवधार्य सा तरुणी तस्मै धनवते सार्थवाहाय स्वाभिप्रायं बोधयितुं निस्त्रपाऽकुतोभया तदैवैकस्मिन् पत्रे श्लोकयुगलमिदमलेखीत्
नाथ! प्रदोषसंरुद्धसञ्चारा पद्मसागा । भृङ्गी समीहते चिन्ता-व्याप्ता मित्र! तवागमम् ||१||
व्याख्या - हे नाथ! प्रदोषे सायङ्काले संरुद्धः सञ्चारो = गमनं यस्याः सा निशावरुद्धगमना, पुनः पद्मानां = कमलानां सदने गता प्राप्ता, अत एव चिन्ताव्यासा = चिन्ताकुला भृङ्गी मित्र! = सूर्य! तवागमनं समीहते-कामयते, पक्षे काचिन्नायिका पुरुषान्तरं निगदति - नाथ! यथा निषिद्धनैशिकगमना, कमलभवनगता, चिन्ताकुला, भृङ्गी स्वश्रेयसे सूर्य वाञ्छति, तथाहं सदने निरुद्धाऽतिमदनदहनदग्धीकृताशेषगात्रा, त्वामेव किलेच्छामि। तदुपेक्षां भवान् भास्वन्!, कर्ता चेत्तदभाग्यतः ।
209