________________
प्रथम-प्रस्तावः
श्री चम्पकमाला-चरित्रम् यस्य भित्तौ चर्वितताम्बूलस्य ष्ठीवनं पश्येस्तस्य गेहस्याधिपतिमानय?, अथ नृपादिष्टः सोऽनुचरस्तदैव तत्रागत्य नृपादेशं तस्मै निगद्य सहैव तं श्रेष्ठिनं सदसि नृपान्तिकमानयत्। तदा समायान्तं तमालोक्य राजाऽभ्युत्थानादिना तं भृशं सममंस्त। योग्यासने तमुपावेश्य 'सप्रश्रयं मधुरवचसा राजैवं निगदितुमारभत-श्रेष्ठिन्! या ते पुत्री स्त्रीजनोचितचातुर्यपटीयसी श्रूयते, तस्याः पाणिपीडनं मया साधं विधेहि। वर्तन्ते च मे बढ्यः पत्न्यस्तथापि ते पुत्री परिणिनीषामि। यतः-"सतीष्वपि मौक्तिकमालासु किमिति गुणवान् पुमान् पुष्पमालां नो परिधत्ते?" इति नृपोक्तमाकर्ण्य श्रेष्ठी जगादस्वामिन्! सहर्षमहं ते पुत्रीं ददामि। यतस्त्वमस्माकं स्वामी न्यायी विनयी वर्त्तसे, एष सम्बन्धस्तु विद्यत एव, पुत्री प्रदानेनाऽन्योऽपि घनिष्ठ आवयोः संसर्गो जनिष्यते च, अत एवैतन्महानन्ददायि लाभकारि च मन्ये। प्रभो! यां कुमारीमभिलषसि, तामपि सकलासु ललनासु गरीयसीं मन्ये, शिवेनेष्टां गौरीमिव भविष्यति चैषा समस्तासु राज्ञीषु ते मान्या, यतस्त्वमेनां स्वयमेव कामयसे खलु। इति व्याहृत्य स्वसदनमागत्य तां कन्यां महार्हविभूषणवसनादिना सर्वाङ्गभूषितां विधाय विक्रमार्काय तदैवानीय तथा समार्पयत्, यथा पुरा क्षीरोदधिः स्वसुतां लक्ष्मी विष्णवे समार्पिपत्। तदा नैमित्तिकनिगदिते सुलने तां सालङ्कारां कन्यामुदवोढ विक्रमार्कः क्षितिपतिः। रम्येष्टकनिर्मितैकस्तम्भके सौधे तामतिष्ठिपच्च। एकस्तम्भाधारे सुधालेपनादतिकोमले तत्र भवने कीटादयोऽप्युपरि चटितुं प्रवेष्टुं वा नो शक्नुयुस्तर्हि मनुष्यः कथं प्रवेष्टुमीष्टाम्?, अत्यन्तानुरागं बिभ्राणो राजाऽग्निवेतालबलेन तत्र भवने नटराज इव स्वयं यातुमलगत्। समस्तसज्जनशिरोमणिः क्षितीशस्तस्यै 1. सादरम्। 2. ईश् = सामर्थ्येऽपि।
204