________________
प्रथम-प्रस्तावः
श्री चम्पकमाला-चरित्रम् मन्यमानो राजा सानन्दमात्मनः सदनमागात्। निसर्गादेवात्यल्पं निद्रालू राजा गुणस्थानभूतां दिव्यां शय्यां क्षणमात्रं निषेव्य किञ्चित्सुप्त्वा निशावसाने पुनरजागरीत्। तत्रावसरे निजारातिदिनेशागमनं संभाव्य पलायमानमात्मतनयमन्धकारमनुगन्तुं निशापि समुत्सुका जाता। तदानी रजन्याः स्ववल्लभाया भविष्यता वियोगेनाधिकं खिद्यमानश्चन्द्रमा अपि सत्वरं क्लेशमापत्, नो चेत्कथं तत्कालमेव विच्छायतामायिष्ट सः। किञ्च निजभर्तुर्दुर्दशामालोकितुं निरासयितुं वा प्रभवन्तो ग्रहगणा अपि वीडिता इव क्षीणतेजसोऽचिरादेवाऽदृश्यतामापेदिरे। तदातिरक्ताऽरुणोदयावलोकनेन पूर्वपरिचयात्प्रमुदिता खलु प्राची दिक् सुप्रकाशच्छलाद्धसन्ती सन्ध्यामिषेण व्यक्ततरं रागं वहमाना नितरामचकात्। समुदितनिजकिरणपटलैः प्रणाशिताऽशेषतमस्स्तोमः सकलतेजस्विनां 'खेऽटानां च प्रभाभिमानं ह्रासयन् सहस्रकिरणस्तदोदयगिरिशिखरे माणिक्यमिवाऽशोशुभ्यत। यथा प्रीतिमान् पतिः प्रीत्या निजप्रेयसी कुङ्कुमादिलेपेन मण्डयते, तथा दिवापतिरपि मृदुकरनिकरैावापृथिव्यौ व्यभूषयत। तत्रावसरे प्रेयसः सूर्यस्य करस्पर्शात्प्रमुदिताः कमलिन्यो विचकाशिरे। खगा अपि सकला मधुरवाण्या दिवाकरस्य स्वागतं कृतवन्तः, उदयमधिगतमेतमादरेण कुशलादिसमाचारमप्राक्षुः खलु। इतश्च सुप्रभाते जाते महीयसा तेजसा जाज्वल्यमानं सागरादिव प्रासादाद् बहिरायान्तं विक्रम राजानं भास्करमिव सर्वे लोकाः स्तोतुं लग्नाः।
अथ प्राभातिकं कृत्यं सर्व विधिवद्विधाय महामहिमशाली राजा दिवापतिकॊममण्डलमिव सभामलङ्कृतवान्। तदनु कञ्चन सेवकमाकार्य तमेवमादिष्टवान्नरेन्द्रः- भोः! त्वमधुनैव तत्र याहि, 1. खेऽटन्ति = ग्रहाः
203