________________
श्री चम्पकमाला-चरित्रम्
प्रथम-प्रस्तावः यस्यैकदा खलूदयो जायते तस्यान्यदाऽवश्यमस्तमपि जायत एवेति सूचयन्निव तत्र समये दिवसमणिरपि शनैःशनैरस्ताचलशिर आरुरोह। अस्तमितं दिवानायकमालोक्य तद्वियोगदुःखमसहमाना विहगा अपि परितश्चक्रुशुः। जगदाह्लादकारिणि भानावस्तं गते चौरवल्लोकापकारी गाढान्धकारः सर्वासु दिक्षु नितरां प्रससार। तदा तत्कालमेव प्रेयांसं सहस्रांशुमस्तमुपेयिवांसमालोक्य तदीयविरहखिन्नाः कमलिन्यः सुषमोज्झिताः सत्य इव मम्लुः। ____ अथ सायन्तनी क्रियामशेषां विधिवद्विधाय विक्रमादित्यो महीजानिरन्तःपुरमागत्य शय्यामलङ्कृतवान्। तत्र वारविलासिनीगणैरुपचरितोऽपि मनसि सदसि पण्डितोक्तस्त्रीचरित्रगोचरोपायं विमृशन् मनागपि निद्रामलभमानः सोऽचिन्तयत्-यदुक्तं सभायां तेन विपश्चिता स्त्रीचरित्रं ज्ञातुं महतामपि दुष्करमस्तीति तत्कतिविधमस्ति, कथं वा तदहं ज्ञास्यामि? अथवा मादृशां पुंसां तदवलोकनादि नो युज्यते। यतः 'खला एव परेषां छिद्राणि द्रष्टुमीहन्ते, शिष्टास्तु ततो विमुखा एव भवन्ति। तदुक्तम् - ___ गुणदोषो बुधो गृह्णन्निन्दुक्ष्वेडाविवेश्वरः । शिरसा श्लाघते पूर्वं, परं कण्ठे नियच्छति ||४||
व्याख्या - यथा खलु ईश्वरो = महेश्वरः समुद्रमन्थनादुत्थितं चन्द्रमसं शिरस्यधत्त, सकललोकपराभवदायिनं गरलं = विषं तु कण्ठमध्य एवातिष्ठिपत्। बुधः = सज्जनो जनः परेषां गुणदोषौ गृह्णन् = पश्यन् गुणं शिरसा श्लाघते स्तौति, दोषं तु कण्ठ एव स्थापयते, कदाचिदपि नैवोद्घाटयते। ___ तथापि तस्य विद्वत्तमस्य तथोक्ति-परीक्षायै मयैतदवश्यं परीक्षणीयम्। यद्यपि तादृशां विशिष्टपुंसां वचस्यलीकता कदापि नो भवितुमर्हति तथाप्यहमेतत्परीक्षिष्ये "यस्माच्छुतस्य साक्षात्कारे
199