________________
प्रथम-प्रस्तावः
श्री चम्पकमाला-चरित्रम् पुमानखिलनीतिवाक्यविदामग्रेसरो वर्त्तते, अयं खलु सर्व तथ्यमाचष्टे, नीतिशास्त्रे यथा भणितं तादृशमेव कथयत्यसावपि। "अपारस्यापि पारावारस्य मतिमन्तः पारं गन्तुमुपायेन शक्नुवन्ति, किन्तु कुलटायाः पारं केऽपि नापुरिति सकला अपि नीतिज्ञा आहुः।" यदीदं तथ्यमस्ति तर्हि मयाऽवश्यमेवैतत्परीक्षणीयम्। यतः लोके खलूत्तमस्य स्वर्णस्यापि परीक्षणं किं नो कुर्वन्ति? परीक्षितान्येव तानि सन्तो गृहन्ति। तथा चोक्तम्
यथा चतुर्भिः कनकं परीक्ष्यते, निघर्षणच्छेदनतापताडनेः ।
तथा चतुर्भिः पुरुषं परीक्ष्येत
श्रुतेन शीलेन कुलेन कर्मणा ||३|| व्याख्या - यथा खलु लोकैः कनकं स्वर्ण चतुर्भिः प्रकारैः परीक्ष्यते सदसज् ज्ञायते, निघर्षणं = कषोपरिविलेखनं, छेदनं =वेधनं, तापोऽग्निसन्तापनम्, ताडनं = कुट्टनम्, एतैश्चतुर्भिः परीक्ष्य यथा सदसदिति लोका विदन्ति, तथा श्रुतेन शास्त्रेण ज्ञानेन वा, शीलेन = ब्रह्मचर्येण स्वभावेन वा, कुलेन = विशुद्धवंशेन, कर्मणाऽऽचारेण च पुरुष = पुमांसं स्त्रियं वा परीक्ष्येत = तत्परीक्षां कुर्वीत। ___ तथाऽहमपि परीक्षिष्याम्येवैतदित्यवधार्य स पृथ्वीपति विक्रमार्कः समागतां भोजनवेलामालोक्य सभां विसृज्य मनोहरे स्नानागारे स्नातुमगमत्। तत्र विधिवत्स्नातानुलिसो नृपो मन्दिरमागत्य जिनेश्वरमभ्यर्च्य भोजनालये यथारुचि बुभुजे। पुनः सभामागत्य विद्वद्वन्देन सत्रा समालपन् दिवसं व्यत्यैत्। इत्थं दिनेऽतीते पत्या चन्द्रमसा सङ्गन्तुमौत्सुक्यवती रजनीमभिलक्ष्य गगनलक्ष्मीरपि सन्ध्यारागच्छलेनाङ्गरागमिव नितरामशोभत।
198