________________
श्री चम्पकमाला - चरित्रम्
प्रथम-प्रस्तावः
तत्र
१
नैव शक्नुयात्।' प्रभो! सकला अपि कला भवान् वेत्ति, नास्ति सन्देहस्तथापि स्त्रीणां चारित्र्यकलायामनभिज्ञतामेव बिभर्षि । यः खलु सर्वेषां तर्कालङ्कारप्रभृतिशास्त्राणामतिगूढार्थमवगच्छति, व्यवहारेषु चाऽसीमं चातुर्यं धत्ते, तेनापि स्त्रीणां मानसीवृत्तिर्जात्वपि नैव ज्ञायते। योऽपि "विद्वान् पुमान् निजबुद्धिचातुर्या देवानपि वञ्चयति, सोऽपि मनोऽनुकूलं विविधं रममाणया युवत्या लीलयैवाऽवञ्च्यत।” इदमत्र तात्पर्यम्-विषयक्रीडया महान्तमपि कियन्तं धीरं नरं सादरं वञ्चितवती युवतिः, ताश्च निजविविधविलासचातुरीकलाकलापेनैन्द्रजालिकवन्महतामपि मनांसि संमोहयन्ति, धीरानपि किङ्करीभूतान् कुर्वन्ति, तर्हि ये खलु स्वरूपतो मूढाः सन्ति नरास्तेषां कियती शक्तिस्तच्चरित्रमवगन्तुमिति ?, "स्त्रियो हि क्षणादेव पीता सती मदिरेव जनानुन्मादयन्ति । ' यदुक्तम् -
"
संमोहयन्ति मदयन्ति विडम्बयन्ति, निर्भर्त्सयन्ति रमयन्ति विषादयन्ति ।
एताः प्रविश्य सदयं हृदयं नराणां, किं नाम वामनयना न समाचरन्ति ||२||
तथा सति यथा मरुभूमौ जलपूर्णा नदी दुर्लभा विद्यते, तथा तयोन्मत्तीकृतानां पुंसामन्तष्करणे तत्त्वविचारणायाः प्रादुर्भावोऽपि दुराप एव संभाव्यते । तस्माद् हे नाथ! गगने समुत्पततां खगानां चरणौ यथा केनापि ज्ञातुं न शक्येते, जलेषु च सञ्चलतां मीनानां चरणपङ्क्तिर्ज्ञातुमशक्यास्ति, तथा स्त्रीचरित्रमपि धीमतापि पुंसा ज्ञातुमशक्यमेव । अतो मया जल्प्यते यद् भवान् कलान्तरेषु विज्ञतमोऽपि स्त्रीचरित्रेऽनभिज्ञतामेव बिभर्त्तितमाम् । अतोऽमी सभ्या भवदग्रे प्रियं रुचिरं वच आलपन्तस्तत्रभवतां मनो रञ्जयन्ति। इत्येतन्निशम्य तद्वचसि श्रद्धालू राजा मनस्येवमचिन्तयत्-यदसौ
197