________________
श्री चम्पकमाला - चरित्रम्
शास्त्रवित्तविद्यावज्जनमण्डितायां समग्रगुणगणविभूषितायां सभायां सुखासीनः सुधर्मसभासीनः सुरेश्वर इव विराजतेतमाम्। तस्यां सभायां कियन्तः पण्डिताः कलाविषयिणीमतिदुर्गमां चच कुर्वन्तः क्षितिपतिं सभ्याञ्जनांश्च मोदयन्ति स्म । अपरे विद्वद्वरास्तर्ककर्कसतत्त्वविचारणया समग्रसभ्यान् रञ्जयन्तः शुशुभिरे । एवं शस्त्राऽस्त्रादिविषयिणीमतिविषमां विचारणां शृण्वन् राजोचिवान्"भो भोः पण्डिताः ! यूयं कथयत, यदहं कां विषमां कलां नो विजानामीति?।" ईदृशीं नृपोक्तिमाकर्ण्य मुख्याः सभ्या ऊचिरे । स्वामिन्! याः कलाः सुरगुरुर्दैत्याचार्यों वा नो वेत्ति, ता अपि विषमाः कला भवान् वेद, किं चात्र लोके शस्त्रजाः शास्त्रजास्तथा बुद्धिकल्पिताः सकला अपि कला भवदन्तष्करणे सुखेन निवसन्तितमाम् । इत्याकलय्य कश्चित्पटीयान् सुविद्वान् शिशिरे काले शिरस्यभिषिक्तो नर इव शिरः कम्पयन्नवसरोचितां गिरं जजल्पराजन् ! अमी सकला अपि पण्डिताः सत्यं नैव निगदन्ति, केवलं मधुरालापसंलापेन मतं मन एव रञ्जयन्ति । यतः -
प्रथम- प्रस्तावः
अवास्तवैर्वास्तवैर्वा, संस्तवैः संस्तवैषिणः । ये प्रियोक्तिप्रियान् नाथान्, रञ्जयन्ति जयन्ति ते || १ || व्याख्या - सम्यक् स्तोतुमिच्छन्ति स्वामिनमिति यावत्, ईदृशाः स्वामिस्तुतिकर्त्तारौ जनाः, प्रियोक्तिप्रियान्=मधुरालापमात्रतुष्टान् नाथान् = स्वामिनः वास्तवैर्यथार्थैः, अवास्तवैरयथार्थैः, संस्तवैः = स्तोत्रैः - प्रशंसनैर्ये रञ्जयन्ति = मोदयन्ति ते जना एव जयन्ति। अतः, जलार्थी चातको नीरदमिवैते धनार्थिनो विद्वांसो मधुरोक्त्या भवन्तं रञ्जयन्ति, तत्त्वं किमपि न विमृशन्ति ।
देव! सत्यं पृच्छसि चेदहं वाचालतया तदुत्तरं समुचितं ददामि । यतः - 'वाचालं विहाय कोऽप्यन्यः क्षितिपतेरुत्तरं दातुं
196