________________
श्री चम्पकमाला - चरित्रम्
प्राधान्यं जगत्यामाप्ततमानां मुखादालोकमानोऽप्यहमपि यथामति संक्षिप्तमुपवर्ण्य सम्प्रति प्रस्तुतां कथां वर्णयामि । तथाहि
अस्मिन् जम्बूद्वीपे भरतखण्डे लक्ष्मीदेव्या मनोहरागारमिव सकलदेशललामभूतो मालवो नाम जनपदो वरीवर्त्ति । यस्याऽनुपमविभूतिलवलेशोऽपि दिवा नाऽऽलम्भि । भृशमेष स्वीययाऽतुलया धियाऽमरपुरं ह्रेपयमाणो विचकास्ति । अतः स्वर्गादपि गरीयानेष मालवो जनपदः सदैव चाचकीतितमाम्, स्वर्गे यथा विमानानि शोभन्ते, तद्वद् यत्र नगराणि महत्तराणि निलिम्पानामपि चेतोहराणि शोशुभ्यन्ते । किञ्च यत्र नगराणि विशालतराणि सकमलानि शश्वदमलजलपरिपूर्णानि सरांस्यसंख्यानि दरीदृश्यन्ते । लसन्ति च तेषु नगरेषु सकलशास्त्रपारङ्गता 2 विद्याचणाः कर्मठाः सुरा इव भूयांसो भूसुराः । विभ्राजन्ते च तेषु गगनचुम्बीनि सप्ताष्टभौमानि सौधानि । मदयन्ति च येषु नगरेषु वैमानिका अप्सरस इव सौन्दर्यगर्विताः सच्छीलमण्डिताः सुस्थिरयौवनाः सकलाश्च कान्ताः । ध्रुवमत्र देशे 4 ग्रामटिका अपि देशान्तरीयनगराद् दीर्घतरा एव समुल्लसन्ति विषयग्रामा इव । विषयग्रामे यथा विविधविषयाः सुखार्हा अतिसुन्दराः सन्ति, तथैव यत्र मालवीयपुर्यां कियत्यः कान्ता बालाः सुकोमलाः कियत्यस्तडिद्गौरवर्णाः सुतारुण्यपरिपूर्णा यूनां मनोहराः सुसज्जिताः सदैव विराजन्ते । किञ्च नानाविधकमनीयाराम - वापी-कूप-तटाकानेकमणिमयजिनेश्वरीयगगनलिहचैत्यैः सुमण्डिता लघुग्रामा अपि विदुषां चेतःसु द्रुततरमाह्लादं जनयितुं पटीयांसः सन्ति चेत्तत्र महानगराणि सुरनगरतोऽप्यधिकानि स्युस्तत्र किं चित्रम् । किं बहुना, यत्र याताः कवयो मोमुद्यमाना द्यामपि नैव कामयन्ते । तन्मन्ये सुरासुरगणैर्मा1. देवानाम्, 2. विद्यया ज्ञाताः, 3. भुवि सुरा इव, 4. तुच्छग्रामाः
193
प्रथम-प्रस्तावः