________________
प्रथम- प्रस्तावः
श्री चम्पकमाला - चरित्रम्
गद्यपद्यसंस्कृताऽऽत्मकं
श्री चम्पकमाला - चरित्रम
यस्योदारगुणावलीमनुपमां लोकत्रयीव्यापिकां, गायं गायमकल्मषाः शिवपदं प्रापुः कियन्तः परे । तेजःपुञ्जमयं प्रणम्य तदहं भास्वत्प्रभाजित्वरं, कुर्वे चम्पकमालिकासुचरितं सद्धीमतां प्रीतये ||१||
अथादौ शिष्टाचारपरिपालनाय विघ्नविघाताय च निजगुरुगौरवपदनमस्कारात्मकं मङ्गलमातन्वानः सूचीकटाहन्यायेन प्रारिप्सितकथायाः प्रधानाङ्गत्वेन च प्रथमं शीलमाहात्म्यं वर्णयति
यद्यपि प्राक्तना विद्वत्तमाः शिष्टाश्चतुर्विधेषु धर्मेषु सर्वजीवोपकारित्वाद् दानस्य प्राधान्यमाचचक्षिरे । तथापि सकलशास्त्रपारदृश्वानो महान्त आसतमास्ततोऽपि दुष्करं शीलमेवोचिरे, ध्रुवममुष्य गरीयसः शीलस्याऽवनायैव नवधा गुप्तीर्निर्ममिरे च ते । वरीवृत्यते च येषामखण्डितमाबाल्याच्छीलमदः समुज्ज्वलम् । बोभूयन्ते च त एव जीवा धन्यवादार्हाः परत्र चामुत्र च । किञ्चादः शीलमेव चारित्र्यवपुषः प्रेयः प्राणमस्ति । प्राणं विना शरीरं यथा न शोभते, तथा शीलं विना सदपि चारित्र्यमकिञ्चित्करमेव जायते। अपि चान्येषां व्रतादीनां भग्रत्वेऽपि पुनः सन्धानं जातुचिज्जायतेतमाम्, एतच्च भग्नतामुपगतं चेत् परिपक्वतां नीतं मृण्मयभाण्डमिव पुनः सन्धातुं केनापि नैव शक्यते । किं चामुष्य शीलस्य सम्यगाराधितस्य लोकोत्तरोऽत्यद्भुतः प्रभावो जगत्त्रये समेषां भव्यानां सुप्रतीत एव जागर्त्ति दिवानिशम् । इत्थममुष्य सच्छीलस्यापि
192
-