________________
प्रथम-प्रस्तावः
श्री चम्पकमाला-चरित्रम् मथ्यमानो रत्नाकरस्तद्भीत्यैवाऽन्तर्गतानि सारतराणि रत्नानि पीयूषं च तत्रैव स्थापयाञ्चक्रिवान् [चकृवान्]। तद्देशीयाः पुमांसोऽल्पविद्याभ्यासेनापि प्रकटितकुशाग्रधियस्ते झटित्येव परेङ्गितज्ञाः सन्नीतियुक्तिसूक्तिनिपुणा विद्यन्ते। यत्रोद्भूता लोकाः परस्परमैत्रीभावमेव समाश्रयन्तः सर्वप्राणिषु साधव इव कारुण्यमेव दर्शयन्तितमाम्। उपेक्षन्ते च दुर्जनसङ्गतिम्। सेवन्ते च महीयसां सद्गुरूणां वचांसि। चेक्रियन्ते च सर्वदा निजदेवगुरुभक्तिम्। समुद्धरन्ति चातिदीनजनान् दुःखसन्ततेः। पालयन्ति च शश्वदार्हतं धर्मम्। त्यजन्ति च नितरां सावद्यकर्माणि। आकर्णयन्ति च प्रत्यहं गुरुमुखात्सद्धर्म्यवाक्यानि।
तत्र मालवे भूदेव्याः शिरश्छत्रमिव निःशेषभूजाततापमपाहरन्ती सुरपुरीमपि जयन्ती खलूज्जयिनी नाम महीयसी राजनगरी शोशुभ्यतेतमाम्। यामभितः सुरसरिदिव विविधजन्मजातदुरित-क्षयकरी सकलसुखकरी विमुक्तिनगरी सहचरीव मनोहरा शिप्रा- नाममहानदी समुल्लसतितमाम्। तां परित आनन्दकन्दजनकानि नन्दनवनानि बहून्युपवनानि चेतोहराणि सन्ति। मन्ये स्वस्मादधिकानि तान्यालोक्यैव व्रीडां भूयसीं विदधत्तन्नन्दनं वनं मेरुमशिश्रियदिति। कयाचित्प्रीतिमत्या युवत्या जुष्टः प्रीतिमान् पुमानिव यस्यां प्रमत्तालिकुलसुजुष्टकमलकुलविलसितशीतलाऽगाधजलसंभृताभिः परिखाभिर्दुर्द्धर्षाभिः परेषामभिश्रितः प्राकारो नितरां शोभामाधत्ते। यत्र पुर्या स्वर्णकलशलक्षितशिखरशोभमानमुच्चैस्तममाकाशलेहिनैकजिनमन्दिरं नवोदितजगच्चक्षुः संस्पृष्टकनकाचलानुकारि भातितमाम्। यस्यां नगयां महेभ्यानां प्रासादशिखरोपरिसंस्थापिता कोटीश्वरत्वमनुमापयन्ती समुल्लसन्ती वैजयन्ती परिस्फुरतितमामसंख्याता। दातारोऽपि तत्र नगरे भूयांसो महीयांसश्च याचकगणाय प्रार्थिता
194