________________
श्री कयवन्ना - चरित्रम्
सदनात्तत्सामग्रीं पयः शर्करादिकामानीय संपच्य स्थाल्यां परिवेष्य त्वन्माता कुत्रापि कस्यापि हेतोरगमत्। तत्रावसरे कश्चिन्मुनि गचर्यै तत्रागत्य धर्मलाभं दत्तवान् । तमालोक्य महता हर्षेण तस्मै तत्क्षीरपाकं प्रचुरं प्रदत्तवान्, पयसो बाहुल्याद् द्रुतं तदधिकं तत्पात्रे पपात, तदपि तव मनसि मनागपि खेदो नाऽभूत्, प्रत्युत महान् हर्ष एव जज्ञे। धर्मलाभं प्रदाय गते तस्मिन् समायाता माता तत्पात्रं लिहन्तं पुत्रमवलोक्य मनस्यशोचत् - अरे ! मम पुत्रस्य कियती क्षुधाऽऽसीत्, यदेतत्सर्वमश्नात् । तदनु स्तोकेनैव कालेन स्वायुषः क्षये मृत्वा भवेऽस्मिन् धनदत्त श्रेष्ठिनः पुत्रोऽभूः । स त्वं कयवन्ना पुराकृतसुपात्रदानमाहात्म्यादिहाऽपरिमितां श्रियमलब्धाः ।
इत्थं भगवत आस्यादात्मनः पूर्वभववृत्तान्तमाकर्ण्य सञ्जातवैराग्यपरिपूर्णतमः कृताञ्जलिः कयवन्ना भगवन्तमित्याख्यत्भगवन्! अहमिदानीं संसारमसारं महाघोरफलदातारं जानामि, अत एतस्माद्यथाऽहं सुखेन तरेयं तथा कृपामानीय तूर्णं विधेहि । प्रभुरपि योग्यं मत्वा संसारकान्तारविच्छेदविधानदक्षाऽभिरूपां दीक्षां दातुमुररीचक्रे । ततः प्रमोदभागसौ प्रभुमभिवन्द्य गृहमागत्य पुत्रेभ्यः सर्वं समर्प्य प्रेयसीसमीपमागत्य जगाद - प्रेयस्यः ! अस्मिन् संसारे महानेव क्लेशो दृश्यते, अतोऽहं सकलदुःखक्षायिकां शिवसुखदायिकां दीक्षां लातुमना अस्मि, तदा ता ऊचिरे-स्वामिन्! वयमपि तामेव कामयामहे । इत्थं दीक्षां जिघृक्षुः सप्तप्रेयसीयुक्तः सकलदीनानाथेभ्यो भूरि दानं ददत्कयवन्ना महोत्सवेन वीरप्रभुपार्श्वे दीक्षां ललौ । निरतिचारं संयमं परिपाल्य विविधं दुष्करं तपः समाचरन् प्रभुणा सह विहरन् ध्यानानलेन चितकर्मकाष्ठं भस्मसाद्विधाय कयवन्नाख्यो महामुनिः कैवल्यज्ञानमाप । ततः शिवसुखमन्वभूदिति। अहो! ईदृशाऽद्भुतप्रभावशालिसुपात्रदानं
189