________________
श्री कयवन्ना - चरित्रम्
यासेनापि दुरापमिदं मानुष्यं निर्धना भूगतं निधिमिव समासाद्य स्वकल्याणं न कुर्वन्ति, नूनं ते जीवाः प्रान्ते पश्चात्तापं लभन्ते । अत एवाऽतिभीषणदहनज्वालावलीढे सद्मनीव शोकमोहजराऽऽधिव्याधिसमाकुलेऽस्मिन् संसारे भव्याशयैः प्राणिभिः क्षणमपि नैव स्थेयम्। तत्र चिन्तामणिरत्नमिवातिदुरापमिदं मनुष्यजनुरित्वा विज्ञैः कदापि नैव प्रमादो विधातव्यः । महता कष्टेन लब्धं कोटिद्रव्यमेकस्याः काकिण्या अर्थे यथा महामूढास्त्यजन्ति तथा कियन्तः प्राणवन्तस्तीर्थेश्वरप्ररूपितं शाश्वतं विशुद्धं नित्यानन्दसुखप्रदमार्हतं धर्मं हित्वा क्षणिकं वैषयिकं सुखं वाञ्छन्ति । येयं विश्वमोहिनी लक्ष्मीः प्रेयसी भाति, सा तु जलधिजलकल्लोललोला दरीदृश्यते, आयुरपि देहिनां कुशाग्रलग्रजलबिन्दुकल्पमस्ति, सौन्दर्यमपि विद्युद्विलाससोदरमेवास्ति, एवमाधिपत्यमपि स्वप्नलीलैव भासते। यच्च-सांसारिकं सुखं तदपि सन्ध्याभ्ररागमिव क्षणभङ्गुरमेव वरीवृत्यते, अतः सर्वैः सर्वप्रपञ्चं विहाय शर्मप्रदो धर्म एव समाराधनीयः ।
भगवतोऽमृतमयीं धर्मदेशनां पायं पायं द्वादशपर्षदः प्रमोदं कमप्यगदंनीयमेव लेभिरे, यथाशक्ति भूयांसो भव्या व्रतनियमादिकमपि जगृहुः । देशनान्ते च कयवन्नाशाहः प्रभुमेवमपृच्छत् - स्वामिन्! मया भवान्तरे किमकारि सुकृतं येनात्र जन्मनि ममेदृशी सम्पदुदभवत्? तदाऽब्रवीद् भगवान् -
-
"
श्रेष्ठिन्! सर्वमेतत्सुपात्रदानस्यैव प्रभावमवेहि । पुरा जन्मनि शालिग्रामनगरे कस्यचिदाभीरस्य पुत्र आसीः पितर्युपरते तव माता रङ्कतामुपगता, एकदा कुत्रचित्पर्वदिवसे सर्वेषामोकसि क्षीरपाको जज्ञे, त्वमपि मातरं पायसं ययाचिषे । यद्यपि निर्धनत्वात्कि - मपि कर्त्तुं न शशाक तथापि पुत्रवात्सल्याल्लोकानां पार्श्ववर्त्तिनां
188